Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 403
________________ 6451-5 Man प्राकृताः कौटुम्बिका दण्डिकाच, ते पुनरेकैके द्विविधाः-शौचवादिनोऽशौचवादिनश्च, उक्तं च- आलोगो मणुएK पुरिसित्थीनपुसगाण बोद्धव्यो । पागडकुडुंविदंडिय असोय तह सोयवाईणं ॥ १ ॥” तत्रैवमापातसंलोको चरमभङ्गे तृतीये आपातो द्वितीये संलोक उक्तभेदप्रभेदयुक्तः । इदानीमेतेषु स्थण्डिलेषु गमने दोषाः प्रतिपाद्यन्ते-तत्र स्वपक्षसंयतसंविग्नामनोज्ञानामापाते सति न गन्तव्यं, अधिकरणदोषसम्भवात् , तथाहि-आचार्याणां परस्परं विभिन्नाः सामाचार्यः, ततोऽमनोज्ञानां सामाचारीवितथाचरणदर्शने सति शैक्षाणां स्वसामाचारीपक्षपातेन नैषा सामाचारीति कलहः स्यात् , असंविनानामपि पार्श्वस्थादीनामापाते न गन्तव्यं, ते हि प्रचुरेण पानीयेन पुतप्रक्षालनं कुर्वन्ति, ततस्तेषां कुशीलानां प्रचुरवारिणा पुतनिर्लेपकरणं दृष्ट्वा शैक्षकाणां शौचवादिना मन्दधर्माणां च एतेऽपि प्रव्रजिता एवेति वरमेते इत्यनुकूलतया तेषां समीपे गमनं स्यात् , मनोज्ञानामापातेऽपि गमनं कर्तव्यं, संयत्यापातस्तु सर्वथाऽपि परिहर्तव्य इति स्वपक्षापातदोषाः, परपक्षापातेऽपि यदि पुरुषापातं स्थण्डिलं ब्रजति तदा नियमतोऽतिप्रचुरमनाविलं च जलं नेतव्यं, अन्यथाऽत्यल्पे कलुपे वा सर्वथा पानीयाभावे वा यदि गतो भवेत्ततस्ते दृष्ट्वा अशुचयोऽमी इत्यवर्णवादं विध्युः, मा कोऽप्यमीपामशुचीनामन्नपानादि दद्यादिति भिक्षाप्रतिषेधं वा कुर्युः, अभिनवप्रवृत्तस्य च कस्यचित् श्रावकस्य विपरिणामो वा भवेदिति, बीनपुंसकापाते पुनरात्मनि परे तदु-1 भयस्मिन् वा शङ्कादयो दोपा भवन्ति, तत्रात्मनि साधुः शङ्काविपरीक्रियते यथा एष किमप्युद्धामयति, परे स्त्री नपुंसको वा शक्यते । यथैते पापकर्माण एनं साधु कामयन्ते इति, तदुभयस्मिन् यथा द्वावप्येतौ परस्परमत्र मैथुनार्थमागतो, तथा व्यापाते नपुंसकापाते वा जास साधुरात्मपरोभयसमुत्थेन दोपेण खिया पण्डकेन वा सार्ध मैथुनं कुर्यात् तत्र च केनचिदागारिकेण दृष्ट्वा राजकुलादिवाकृष्येत ततः। प्रवचनस्योड्डाह इत्यादि, दृप्ततिर्यगापातेन शृङ्गादिताडनमारणादयो दोषाः, गर्हिततिर्यवीनपुंसकापाते पुनर्जनस्य मैथुनशङ्का स्यात् कदा Join Educati o nal For Private Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444