Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
| नात्मनो विराधना पुरीषप्रश्रवणाक्रमणेन च त्रसस्थावरप्राणिप्रणाशनतः संयमविराधना ४ । तथा अचिरकालकृतं - स्वल्पकालनिविष्टं, | अयमर्थ:- यानि स्थण्डिलानि यस्मिन् ऋतावनिप्रज्वालनादिभिः कारणैरचित्तानि कृतानि तस्मिन्नेव ऋतौ तान्यचिरकालकृतानि भवन्ति, यथा हेमन्ते कृतानि हेमन्त एव अचिरकालकृतानि, ऋत्वन्तरव्यवहितानि तु चिरकालकृतानि ततः सचित्तत्वान्मिश्रीभूतत्वाद्वा अस्थण्डिलानि तानीति, यत्र पुनरेकं वर्षाकालं सधनो ग्राम उषितस्तत्र द्वादश वर्षाणि यावत्स्थण्डिलं भवति ततः परमस्थण्डिलं ५ । तथा विस्तीर्णमहत्, तत् त्रिधा - जघन्यं मध्यममुत्कृष्टं च तत्र जघन्यमायामविष्कम्भाभ्यां हस्तप्रमाणं, उत्कृष्टं द्वादश योजनानि, तच्च चक्रवर्तिस्कन्धावारनिवेशे समवसेयं, शेषं तु मध्यममिति ६ । तथा दूरमवगाढं - गम्भीरं यत्राधस्ताच्चत्वार्यङ्गुलान्यग्नितापादिना अचित्ता भूमिस्तज्जघन्यं, यस्य पुनरधस्तात्पञ्चाङ्गुलप्रभृतिकं तदुत्कृष्टं दूरमवगाढं, अत्र च वृद्धसम्प्रदायः -- ' चउरङ्गुलोगाढे सन्ना वोसिरिज्जइ न काइयत्ति ७ । तथा अनासन्नं - आरामादेर्नातिसमीपस्थं, इह किल आसन्नं द्विविधं - द्रव्यासन्नं भावासन्नं च तत्र द्रव्यासन्नं देवकुलहर्म्यप्रामारामग्रामक्षेत्रमार्गादीनां निकटं, तत्र च द्वौ दोषौ– संयमोपघात आत्मोपघातश्च तथाहि स देवकुलादिस्वामी तत्साधुभ्युत्सृष्टं पुरीषं केनचित्कर्म करेणान्यत्र त्याजयति, ततस्तत्प्रदेशविलेपने हस्तप्रक्षालने च संयमोपघातः, आत्मोपघातञ्च स गृहाद्यधिपतिः प्रद्विष्टः सन् कदाचित्ताडयतीति, भावासन्नं नाम तावत्तिष्ठति यावत्संज्ञा मनाग् नागच्छति, ततस्त्वरितं गच्छन् केनचिद्भूर्तेन भावासन्नतामुपगम्य धर्मप्रच्छनादिव्याजेनार्धपथ एव धृतः, ततश्च तस्य पुरीषवेगं धारयत आत्मविराधना, मरणस्य ग्लानत्वस्य वाऽवश्यम्भावात् अनधिसहेन च सता तेन लोकपुरतोऽस्थाने संज्ञाव्युत्सर्गे पुनर्जङ्घादिलेपने वा प्रवचनविराधना, संयमोपघातादि तत्रैवाप्रत्युपेक्षितस्थण्डिले व्युत्सृजतो भवतीति ८ । तथा बिलवर्जितं भूमिरन्धादिरहितं, बिलयुक्ते हि स्थण्डिले संज्ञां व्युत्सृजतो यदा बिले प्रविशन्त्या संज्ञया प्रश्रवणेन च
onal
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444