Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा- द्विविधा:-मनोज्ञा अमनोज्ञाश्च, मनोज्ञा-एकसामाचारिकाः अमनोज्ञाश्च-विभिन्नसामाचारिकाः, असंविज्ञा अपि द्विविधाः-संविज्ञपा- ९१स्थण्डि
रोद्धारे |क्षिका असंविज्ञपाक्षिकाच, संविज्ञपाक्षिका-निजानुष्ठाननिन्दिनो यथोक्तसुसाधुसमाचारप्ररूपकाः असंविज्ञपाक्षिका-निर्धर्माणः सुसा- ल स्वरूपं तत्त्वज्ञा- धुजुगुप्सकाः, उक्तं च-तत्थावायं दुविहं सपक्खपरपक्खओ य नायव्वं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥ १॥ संवि- गा.७०९. नवि० ग्गमसंविग्गा संविग्गमणुन्नएयरा चेव । असंविग्गावि दुविहा तप्पक्खियएयरा चेव ।। २॥” परपक्षापातवदपि स्थण्डिलं द्विविध-मनु- | ७१०
घ्यापातवत् तिर्यगापातवञ्च, एकैकमपि त्रिविधं-पुरुषापातवत् रुयापातवन्नपुंसकापातवच्च, तत्र मानुषपुरुषापातवत् त्रिविधं-दण्डिकपु॥२०४॥
रुषापातवत् कौटुम्बिकपुरुषापातवत् प्राकृतपुरुषापातवच्च, दण्डिका-राजकुलानुगताः कौटुम्बिकाः-शेषा महर्द्धिकाः इतरे-प्राकृताः, ते च त्रयोऽपि प्रत्येक द्विविधाः-शौचवादिनोऽशौचवादिनश्च, एवं व्यापातवन्नपुंसकापातवञ्च प्रत्येकं प्रथमतो दण्डिकादिभेदतस्त्रिविधं, ततः शौचवाद्यशौचवादिभेदतः पुनरेकैकं द्विविधमवसेयं, उक्तं च-"परपक्खेऽवि य दुविहं माणुसतेरिच्छगं च नायव्वं । एकेकंपि च तिविहं पुरिसित्थिनपुंसकं चेव ॥ १॥ पुरिसावायं तिविहं दण्डियकोडुबिए य पागइए । ते सोयऽसोयवाई एमेव नपुंसइत्थीसुं ॥२॥"13 अथ तिर्यगापातवत् कथ्यते तत्र तिर्यञ्चो द्विविधाः-दृप्ता अदृप्ताश्च, दृप्ता-दर्पवन्त: अदृप्ताः-शान्ताः, तेऽपि प्रत्येकं त्रिविधा:-जघन्या उत्कृष्टा मध्यमाश्च, जघन्या मूल्यमङ्गीकृत्य एडकादयः उत्कृष्टा हस्त्यादयः मध्यमा महीपादयः, एते किल पुरुषा उक्ताः, एवमेव स्त्रीनपुंसका अपि वक्तव्याः, नवरं ते दृप्ता अदृप्ताश्च प्रत्येक द्विधा विज्ञेयाः, तद्यथा-जुगुप्सिता अजुगुप्सिताश्च, जुगुप्सिता गर्दभ्यादयः इतरेऽजुगुप्सिताः, उक्तं च-"दित्तमदित्ता तिरिया जहन्नउक्कोसमज्झिमा तिविहा । एमेव थीनपुंसा दुगुंछिअदुगुंछिया नवरं ॥ १॥" २०४॥ उक्तमापातवत्स्थण्डिलं, संलोकवत्पुनर्मनुष्येष्वेव द्रष्टव्यं, ते च मनुष्याखिविधा:-तद्यथा-पुरुषाः स्त्रियो नपुंसकाश्च, एकैके प्रत्येकं त्रिविधाः
For Private 3 Personal Use Only
S
w.jainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444