Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 396
________________ प्रव० सा- नुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते, तद्यथा-प्रथमसमये स्तोकं द्वितीयसमये ततोऽसंख्यातगुणं तृतीयसमयेऽपि ततोऽसङ्ख्ये- ९० उप रोद्धारे 8 यगुणं यावदन्तर्मुहूर्तेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति, उपशमिता नाम यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्यामि-18शमश्रेणिः तत्त्वज्ञा- षिच्य द्रुघणादिभिर्निकुट्टितो निस्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिच्य परिषिच्यानिवृत्तिकरणरूपद्रुघणनिकु- गा.७००नवि० ट्टितः सक्रमणोदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यो भवति, अन्ये तु अनन्तानुबन्धिनामुपशमनां न मन्यन्ते, किन्तु विसंयो-III ७०८ जनां क्षपणां, सा च प्रागेवोक्ता, सम्प्रति दर्शनत्रिकस्योपशमना भण्यते, इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तर्मुहूर्तेन दर्श॥२०१॥ नत्रिकमुपशमयति, उपशमयंश्च पूर्वोक्तकरणत्रयनिर्वर्तनेन विशुद्ध्या वर्धमानोऽनिर्वृत्तिकरणाद्धाया असङ्ख्येयेषु भागेषु गतेषु अन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तर्मुहूर्तमानां स्थापयति मिथ्यात्वमिश्रयोश्चावलिकामात्रं, उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिथ्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथमस्थितिदलिकमध्ये स्तिबुकसक्रमेण सक्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति, उपरितनदलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्तानुवन्धिनामुपरितनस्थितिदलिकस्येवावसेया, एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्रमोहमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति, केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने अपूर्वकरणं चापूर्वकरणगुणस्थाने, अपूर्वकरणे च स्थितिघातादिभिर्विशुद्धय ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु दर्शनसप्तकवर्जितानामेकविंशतेर्मोहनीयप्रकृतीनामन्तरकरणं करोति, तत्र यस्य वेदस्य सज्वलनस्य च उदयोऽस्ति || २०१॥ तियोः स्वोदयकालमानां प्रथमस्थितिं करोति, शेषाणां त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामात्र, वेदत्रिकसज्वलनचतु OCACAA% For Private Personal Use Only H Jan Education arjainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444