Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 399
________________ Jain Education तेषामुपशमो भण्यते ?, तदसत् पूर्वं हि तेषां क्षयोपशम एवासीत् नोपशमस्तत इदानीमुपशमः क्रियते, ननु क्षयोपशमोऽप्युदिते क मशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चेत्थंभूत एव ततः कोऽनयोर्विशेषः ? येनैवमुच्यते पूर्वं क्षयोपशम आसीन्नोपशम इति, सत्यं, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति उपशमे तु नेति विशेषः, ननु यदि सत्यपि क्षयोपशमे मिथ्यात्वानन्तानुबन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातो भवति ?, तदुदये ह्यवश्यं सम्यक्त्वादिलाभः सन्नप्यपगच्छति यथा सासादनसम्यग्दृष्टेरिति, नैष दोषः, प्रदेशानुभवस्य मन्दानुभावत्वात्, मन्दानुभावो छुदयो न स्वावार्यगुणविघातमाधातुमलं, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः, तथाहि - मतिज्ञानावरणादिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चावश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वाभिधानात्, अथ च तत्सकलचतुर्ज्ञानिनो न मत्यादिज्ञानविघातकृद्भवति, तदुदयस्य मन्दानुभावत्वात्, तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वावार्यगुणविघाताय प्रभवति ततः प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्यादि सुतरां न भविष्यति, तदुदयस्यातीव मन्दानुभावत्वादिति । अथ गाथाक्षरार्थः कथ्यते - एकदेशेन समुदायोपचारात् 'अण'त्ति अनन्तानुबन्धिनः क्रोधमानमायालोभान् उपशमयति, इयं च क्रिया सर्वत्र योज्या, ततो दर्शनं दर्शस्तत् त्रिविधं मिथ्यात्वमिश्रसम्यक्त्वस्वरूपं पुञ्जत्रयं ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्या दिषट्कं - हास्यरत्यरतिशोकभयजुगुप्सालक्षणं ततः पुरुषवेदं ततो द्वौ द्वौ क्रोधाद्यौ एकान्तरितौ- सज्वलनक्रोधाद्यन्तरितौ सदृशौ - क्रोधादित्वेन तुल्यौ सदृशं तुल्यं युगपदिति भावः, अयमर्थ:-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधयुगलं युगपत् प्रशमयति, ततः सज्वलनक्रोधमित्यादि । ७०० ॥ अथैनां गाथां स्वयमेव सूत्रकृद्व्याख्याति — 'कोहं' गाहा, गतार्थी, 'इत्थी' गाहा सुगमा, नवरं दर्शनत्रयोपशमानन्तरं नपुंसक वेद स्रीवेदौ युगपदुपशमयति, अयं च नपुंसकवेदेन nal For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444