SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Jain Education तेषामुपशमो भण्यते ?, तदसत् पूर्वं हि तेषां क्षयोपशम एवासीत् नोपशमस्तत इदानीमुपशमः क्रियते, ननु क्षयोपशमोऽप्युदिते क मशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चेत्थंभूत एव ततः कोऽनयोर्विशेषः ? येनैवमुच्यते पूर्वं क्षयोपशम आसीन्नोपशम इति, सत्यं, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति उपशमे तु नेति विशेषः, ननु यदि सत्यपि क्षयोपशमे मिथ्यात्वानन्तानुबन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातो भवति ?, तदुदये ह्यवश्यं सम्यक्त्वादिलाभः सन्नप्यपगच्छति यथा सासादनसम्यग्दृष्टेरिति, नैष दोषः, प्रदेशानुभवस्य मन्दानुभावत्वात्, मन्दानुभावो छुदयो न स्वावार्यगुणविघातमाधातुमलं, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः, तथाहि - मतिज्ञानावरणादिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चावश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वाभिधानात्, अथ च तत्सकलचतुर्ज्ञानिनो न मत्यादिज्ञानविघातकृद्भवति, तदुदयस्य मन्दानुभावत्वात्, तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वावार्यगुणविघाताय प्रभवति ततः प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्यादि सुतरां न भविष्यति, तदुदयस्यातीव मन्दानुभावत्वादिति । अथ गाथाक्षरार्थः कथ्यते - एकदेशेन समुदायोपचारात् 'अण'त्ति अनन्तानुबन्धिनः क्रोधमानमायालोभान् उपशमयति, इयं च क्रिया सर्वत्र योज्या, ततो दर्शनं दर्शस्तत् त्रिविधं मिथ्यात्वमिश्रसम्यक्त्वस्वरूपं पुञ्जत्रयं ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्या दिषट्कं - हास्यरत्यरतिशोकभयजुगुप्सालक्षणं ततः पुरुषवेदं ततो द्वौ द्वौ क्रोधाद्यौ एकान्तरितौ- सज्वलनक्रोधाद्यन्तरितौ सदृशौ - क्रोधादित्वेन तुल्यौ सदृशं तुल्यं युगपदिति भावः, अयमर्थ:-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधयुगलं युगपत् प्रशमयति, ततः सज्वलनक्रोधमित्यादि । ७०० ॥ अथैनां गाथां स्वयमेव सूत्रकृद्व्याख्याति — 'कोहं' गाहा, गतार्थी, 'इत्थी' गाहा सुगमा, नवरं दर्शनत्रयोपशमानन्तरं नपुंसक वेद स्रीवेदौ युगपदुपशमयति, अयं च नपुंसकवेदेन nal For Private & Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy