________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २०२ ॥
Jain Education
Sपूर्वस्पर्धकेभ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति, किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरण लोभावुपशमयति, तदुपशान्तौ च तत्समयमेव सज्ज्वलन लोभबन्धव्यवच्छेदो बादरसज्ज्वलनलोभोदयोदीरणाव्यवच्छेदश्च ततोऽसौ सूक्ष्मसम्परायो भवति, तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थितिं सूक्ष्मसम्परायाद्धातुल्यां करोति वेदयते च, सूक्ष्मसम्परायाद्धा चान्तर्मुहूर्तमाना, शेषं च सूक्ष्मं किट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये सब्ज्वलनलोभ उपशान्तो भवति, ततोऽनन्तरसमयेऽसावुपशान्तमोहो भवति, स च जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूर्त यावल्लभ्यते, तत ऊर्द्ध नियमादसौ प्रतिपतति, प्रतिपातश्च द्विधा भवक्षयेण अद्धाक्षयेण च, तत्र भवक्षयो म्रियमाणस्य अद्धाक्षय उपशान्ताद्धायां समाप्तायां, अद्धाक्षयेण च प्रतिपतम् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयो व्यवच्छिन्नस्तत्र तत्र प्रतिपतता सता तेन ते अद्धाक्षयेण आरभ्यन्ते इतियावत् प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकं, कश्चित्पुनस्ततोऽप्यधस्तनं गुणस्थानकद्विकं याति कोऽपि सासादनभावमपि यः पुनर्भवक्षयेण प्रतिपतति स नियमादनुत्तरविमानवासिषूत्पद्यते, उत्पनच प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीत्येष विशेषः, उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणिं प्रतिपद्यते, यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपक श्रेण्यभावः, यः पुनरेकवारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपीत्येष कार्मप्रन्थिकाभिप्रायः आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते, तदुक्तम् — 'मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥ १ ॥” इति ननूपशमश्रेणिमविरतादय एवारभन्ते ते च यथासम्भवं सम्य| ग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् ततः कथमिदानीं
onal
For Private & Personal Use Only
९० उपशमश्रेणिः
गा. ७०००
७०८
॥ २०२ ॥
ww.jainelibrary.org