________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
९. उपशमश्रेणिः गा.७००.
॥२०३॥
श्रेणि प्रतिपन्नस्य क्रम उक्तः, इहायं सम्प्रदायः-स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तदूरं यावन्नपुंसकवेदेनापि श्रेणिं प्रतिपन्नः सन् नपुंसकवेदमेव केवलमुपशमयति, तत ऊर्द्ध पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशम- यितुं लग्नः, स च तावद्गतो यावन्नपुंसकवेदोदयाद्धाया द्विचरमसमयः, तस्मिंश्च समये स्त्रीवेद उपशान्तः, नपुंसकवेदस्य च एका समयमात्रा उदयस्थितिर्वर्तते, शेषं सर्वमुपशान्तं, तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भवति, ततः पुरुषवेदादिकाः सप्त प्रकृतीर्युगपदुपशमयितुं यतते, शेषं तथैव, यदा तु स्त्रीवेदेन श्रेणिं प्रतिपद्यते तदा प्रथमतो नपुंसकवेदमुपशमयति, पश्चात् स्त्रीवेदं, तं च तावदुपशमयति यावत्स्वोदयस्य द्विचरमसमयः, तस्मिंश्च समये एका चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितं, ततश्चरमसमये गतेऽवेदका सती पुरुषवेदहास्यादिषट्करूपाः सप्त प्रकृतीयुगपदुपशमयति, शेषं तथैव, पुरुषवेदेन पुनः श्रेणिं प्रतिपद्यमानस्य स्वरूपं प्रथमगाथायामेवोक्तं ॥ ७०१ ॥ ७०२ ॥ 'तो पुंवेयं' गाहा, उत्तानार्था, 'एवे'त्यादि अनेनैव क्रोधोपशमक्रमेण ४ त्रीनप्यप्रत्याख्यानप्रत्याख्यानावरणसञ्ज्वलनाख्यान्मानान् तिस्रश्च माया लोभत्रिकं च प्रशमयतीति योगः, नवरं-केवलं सज्वलनाभिधलोभस्य त्रिभागे किट्टिवेदनाद्धालक्षणे लोभे इति-वक्ष्यमाणो विशेषः, तमेवाह ।। ७०३ ।। ७०४ ॥ 'संखेयाई' इत्यादि, गाथाचतुष्टयं, किट्टीकृतानि-लक्ष्णीकृतानि सज्वलनलोभखण्डानि सङ्ख्यातानि क्रमेणानुसमयं प्रशमयति, चरमं च खण्डं पुनरप्यसङ्ख्येयानि खण्डानि कृत्वाऽनुसमयमेकैकमुपशमयति ॥७०५।१७०६॥७०७॥ इदानीं याः प्रकृतीरुपशमयन् येषु गुणस्थानकेषु वर्तते तदाह-'इह ही'त्यादि, इह हि श्रेणिप्रतिपत्ताऽनन्तानुबन्धिचतुष्कदर्शनविकरूपसप्तकोपशमे कृते सति भवत्यपूर्वः-अपूर्वकरणगुणस्थानके वर्तत इत्यर्थः, ततः परं 'नपुमाईत्ति नपुंसकवेदादिप्रकृतीः प्रशमयन् यावत्सङ्ख्येयानि बादरलोभखण्डानि प्रशमयति तावदनिवृत्तिवादरो भवति, अनिवृत्तिबाद
| ॥२०॥
in Education H
ana
For Private Personel Use Only
COMw.jainelibrary.org