________________
रगुणस्थाने वर्तते इत्यर्थः, तदनु चरमस्य सूक्ष्मकिट्टीकृतखण्डस्य सङ्ख्यातीतानि-असङ्ख्येयानि खण्डानि प्रशमयन् सूक्ष्मसम्परायगुणस्थानके भवति, इत्येवं मोहनीयोपशमे कृते सति उपशान्तमोगुणस्थानं भवति, तच्च सर्वार्थसिद्धिहेतुः सञ्जायते वीतरागाणामप्रतिपतितभावानामिति शेष इति ९० ॥ ७०८ । इदानीं 'थंडिल्लाण चउवीस उ सहस्से'त्ति द्वारमेकनवतितममाह
अणावायमसंलोए १, परस्साणुवघायए २। समे ३ अज्झुसिरे यावि ४, अचिरकालकयंमि ५ य ॥७०९ ॥ विच्छिन्ने ६ दूरमोगाढे ७, नासन्ने ८ विलवजिए ९ । तसपाणबीयरहिए १०, उच्चाराईणि वोसिरे ॥ ७१०॥ अनापातमसंलोकं १ परस्य अनौपघातिकं २ समं ३ अशुषिरं ४ अचिरकालकृतं ५ विस्तीर्ण ६ दूरमवगाढं ७ अनासन्नं ८ बिलवर्जितं ९ त्रसप्राणबीजरहितं १० यत्स्थण्डिलं तत्र उच्चारादीनि-पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत्, तत्र परस्येत्युभयत्र सम्बन्धात् न विद्यते आपातः-अभ्यागमः परस्य-अन्यस्य स्वपक्षस्य परपक्षस्य वा यस्मिन् स्थण्डिले तदनापातं, न विद्यते संलोको-दर्शनं वृक्षादिच्छन्नत्वाद्यत्र परस्य तदसंलोकं, अत्र च चतुर्भङ्गी, तद्यथा-अनापातमसंलोकमिति प्रथमो भङ्गः अनापातं संलोकवदिति द्वितीयः आपातवदसंलोकमिति तृतीयः आपातवत् संलोकवच्चेति चतुर्थः, अमीषां चतुर्णा भङ्गानां मध्ये प्रथमो भङ्गोऽनुज्ञातः शेषास्तु प्रतिषिद्धाः, इह च चरमभङ्गव्याख्याने अन्ये विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति चरमभङ्गस्यैव स्वरूपं निरूप्यते-तत्र आपातवत्स्थण्डिलं द्विविधं ज्ञातव्यं, तद्यथा-स्वपक्षापातवत् परपक्षापातवच्च, स्वपक्षः-संयतवर्गः परपक्षो-गृहस्थादिः, स्वपक्षापातवदपि द्विविधं-संयतापातवत् संयसापातवच्च, संयता अपि द्विविधाः-संविज्ञा असंविज्ञाश्च, संविज्ञा-उद्यतविहारिणः असंविज्ञाः-शिथिलाः पार्श्वस्थादयः, संविज्ञा अपि
COCCASIOCOCCASTROCCOLOCIEOCHR
Jain Education Intel
For Private & Personel Use Only
Urainelibrary.org