________________
निषधाशय्ये न स्तः निषद्यायां तु शय्याचर्ये शय्यायां पुनर्निषद्याचर्ये न भवत इति ८६ ॥ ६९१ ॥ इदानीं 'मंडलि सत्त'त्ति सप्ताशीतं द्वारमाह
सुत्ते १ अत्थे २ भोयण ३ काले ४ आवस्सए य ५ सज्झाए ६ । संथारे ७ चेव तहा सत्तेया
मंडली जइणो ॥ ६९२॥ सूत्रे-सूत्रविषयेऽर्थे-अर्थविषये भोजने काले-कालप्रहे आवश्यके-प्रतिक्रमणे स्वाध्यायप्रस्थापने संस्तारके चैव सप्तैता मण्डल्यो यतेः, एतासु चैकैकेनाचाम्लेन प्रवेष्टुं लभ्यते नान्यथेति ८७ ॥ ६९२ ।। इदानीं 'दसठाणववच्छेओ'त्ति अष्टाशीतं द्वारमाह
मण १ परमोहि २ पुलाए ३ आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संयमतिय ८ केवल ९ सिज्झणा य जंबुमि वोच्छिन्ना ।। ६९३ ॥ पदैकदेशेऽपि पदसमुदायदर्शनात् मनःपर्ययज्ञानं तथा परम:-प्रकृष्टस्तदुत्पत्ताववश्यमेव केवलज्ञानलाभादवधिः-मूर्त्तद्रव्यपरिच्छेदी ज्ञानविशेषः परमावधिः स च क्षेत्रतोऽलोकेऽपि लोकप्रमाणासङ्ख्येयखण्डविषयः कालतस्तु असङ्ख्येयोत्सर्पिण्यवसर्पिणीविषयः तथा पुलाकलब्धिस्तथा आहारकशरीरलब्धिस्तथा क्षपकश्रेणिस्तथोपशमश्रेणिस्तथा कल्पो-जिनकल्पः तथा संयमत्रिकं परिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातलक्षणचारित्रत्रयं तथा केवलं केवलज्ञानं तथा सेधना-सिद्धिगमनं इत्येते दश पदार्था जम्बूस्वामिनि व्यवच्छिन्ना:-जम्बूस्वाम्यनन्तरमेतेषामभाव इत्यर्थः, इह च केवलिग्रहणेन सिज्झणाग्रहणेन वाऽऽगते यत् उभयोरुपादानं तत् यः केवली स नियमात्सिद्ध्यति | यश्च सिद्ध्यति स नियमात् केवली सन्निति ख्यापनार्थ, तथा प्रथमसंहननं वर्षभनाराचं प्रथमं संस्थान-समचतुरस्रं, यश्चान्तर्मुहूर्तेन
Jain Education
p
al
For Private & Personel Use Only
A
ainelibrary.org