Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
करणानिवृत्तिकरणाख्यानि त्रीणि करणानि कुर्वन्ति, करणवक्तव्यता च सर्वाऽपि कर्मप्रकृत्यादिभ्योऽवसेया, अनिवृत्तिकरणं च प्राप्तः | सन् अनन्तानुबन्धिनां स्थिति कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासङ्क्रमेणाधस्तादावलिकामात्रं मुक्त्वा उपरि निरवशेषाननन्तानुबन्धिनो | विनाशयति, आवलिकामात्रं तु स्तिबुकसङ्क्रमेण वेद्यमानासु प्रकृतिषु सङ्क्रमयति, तदेवं क्षपितानन्तानुबन्धिचतुष्को दर्शनमोहक्षपणार्थं यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अनिवृत्तिकरणाद्धायां च वर्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म तावदुद्वलनासङ्क्रमेणोद्वलयति यावत्पल्योपमासयेय भागमात्रमवतिष्ठते, ततो मिध्यात्वदलिकं सम्यक्त्वमिश्रयोः प्रक्षिपति, तच्चैवं प्रथमसमये स्तोकं द्वितीयसमये ततोSसपेयगुणं एवं यावदन्तर्मुहूर्त चरमसमये आवलिकागतं मुक्त्वा शेषं द्विचरमसमय सङ्क्रमितदलि का दस पेयगुणं सङ्क्रमयति, आवलिकागतं तु तिबुकसङ्क्रमेण सम्यक्त्वे प्रक्षिपति, एवं मिथ्यात्वं क्षपितं, ततोऽन्तर्मुहूर्तेन सम्यग्मिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति, ततः सम्यग्मिथ्यात्वमपि क्षपितं, ततः सम्यत्तत्वमपवर्तयितुं तथा लग्नो यथाऽन्तर्मुहूर्तेन तद्व्यन्तर्मुहूर्तमात्रस्थितिकं जातं, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातं, ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदः, ततो विपाकानुभवेनैव केवलेन वेदयति यावच्चरमसमयः, ततोऽनन्तरसमयेऽसौ क्षायिकसम्यग्दृष्टिजयते, इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो व्युपरमते ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिध्यात्वस्याविनाशात्, | क्षीणमिथ्यादर्शनस्तु नोपचिनोति बीजाभावात् क्षीणसप्तकत्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेपूत्पद्यते, प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथापरिणामं सर्वगतिभाग्भवति, बद्धायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति, अथ क्षीणसप्तको गत्यन्तरं सङ्क्रामन् कतितमे भवे मोक्षमुपयाति ?, उच्यते, तृतीये चतुर्थे वा भवे,
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444