Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥ १९९॥
गतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत् समयाधिकावलिकामानं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य ८९क्षपक. प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युग- श्रेणिः पद्व्यवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणसक्रमेण लोभे प्रक्षिप्तत्वात् , ततो लोभस्य प्रथमकि-१ गा.६९४. ट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति । तस्या दलिकं समयोनावलिकाद्विकेन गुणसक्रमेण लोभे सर्व सङ्क्रमयति, सज्वलनलोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं | वेद्यमानं समयाधिकावलिकामानं शेषं जातं, ततो लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथम स्थितिं करोति वेदयते च, | तां च वेदयमानस्तृतीयकिट्टिदलिक गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितिकृतस्य समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये सज्वलनलोभस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदोऽनिवृत्तिबादरसम्परायगुणस्थानककालव्यवच्छेदश्च युगपजायते, ततः सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तदानीमसौ सूक्ष्मस-१ म्पराय उच्यते, पूर्वोक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसक्रमेण सङ्क्रमयति, प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते, सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीवेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः सङ्ख्येया भागा गता भवन्ति एकोऽवशिप्यते, ततस्तस्मिन् सङ्ख्येये भागे सज्वलनलोभं सर्वापवर्तनयाऽपवर्त्य सूक्ष्मसम्परायाद्धासमं करोति, सा च सूक्ष्मसम्परायाद्धा अद्या- ॥१९९॥ प्यन्तर्मुहुर्तमाना, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः शेषकर्मणां तु प्रवर्तन्त एव, तां च लोभस्यापवर्तितां स्थितिमुदयो-पी
orrent
Jain Education
Pujainelibrary.org
a
For Private & Personal Use Only
l

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444