Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
| जीवितमरणादि परिकथयति स प्रश्नाप्रश्नः उक्तं च - "पसिणापसिणं सुमिणे विज्जासिद्धं कहेइ अन्नस्स | अहवा आइंखणियाघंटियसिहं | परिकहेइ ॥ १ ॥” [ प्रश्नाप्रश्नः स्वप्ने विद्याशिष्टं अन्यस्मै कथयति । अथवा आखिंणिकाघण्टिकाशिष्टं परिकथयति ॥ १ ॥ ] तथा नि'मित्तं - अतीतानागतवर्तमानवस्तुपरिज्ञानहेतुर्ज्ञान विशेषः, उक्तं च- "तिविहं होइ निमित्तं तीयपडुप्पण्णऽनागयं चैव । तेण विणा उन नेयं नज्जइ तेणं निमित्तं तु ॥ १ ॥” [ त्रिविधं भवति निमित्तमतीतं वर्त्तमानमनागतं चैव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु ॥ १ ॥ ] एतानि च कौतुकभूतिकर्मादीनि गौरवादिनिमित्तं कुर्वाणः साधुरभियोगनिर्वृत्तं कर्म बघ्नाति, अपवादपदेन तु गौरवरहितः सन्नतिशयज्ञाने सति निःस्पृहवृत्त्या यदा करोति तदाऽसौ आराधक एवं उच्यं च गोत्रं बनातीति तीर्थोन्नतिकरणात् उक्तं च- " एयाणि गारवट्ठा कुणमाणो आभियोगियं बंधे । बीयं गारवरहिओ कुब्बइ आराहगुचं च ॥ १॥" [ एतानि गौरवार्थं कुर्वन् आभियोगिकं बध्नाति | द्वितीयं पदं गौरवरहितः करोति आराधक उच्चैर्गोत्रं च ॥ १ ॥ ] ॥ ६४४ ॥ अथ आसुरी भावनां पञ्चभेदामाह - 'सई'त्यादि, सदा विग्रहशीलत्वं १ संसक्ततपः २ निमित्तकथनं च ३ निष्कृपताऽपि चापरा ४ पञ्च मकं च निरनुकम्पत्व ५ मिति, तत्र 'सदा' सर्वकालं 'विग्रहशीलत्वं' पश्चादननुतापितया क्षमणादावपि प्रसस्त्यप्राप्त्या च विरोधानुबन्धः, यदाह " निचं विग्गहसीलो काऊण य नाणुतप्पई पच्छा । न य खामिओ पसीयइ सपक्खपरपक्खओ वावि ॥ १ ॥” [ नित्यं विग्रहशीलः कृत्वा च पश्चान्नानुतप्यते न च क्षमितः प्रसीदति स्वपक्षपरपक्षतो वाऽपि ॥ १ ॥ ] तथा संसक्तस्य - आहारोपधिशय्यादिषु सदा प्रतिबद्धभावस्य आहाराद्यर्थमेव च तपः - अनशनादितपश्चरणं संसक्ततपः, यदाह - " आहारउवहि सेज्जासु जस्स भावो उ निश्वसंसत्तो । भावोवहओ कुणइ व तवोवहाणं तदट्ठाए ॥ १ ॥” [ आहारोपधिशय्यासु यस्य तु भावो नित्यं संसक्तः । उपहतभावो वा करोति तपउपधानं तदर्थाय ॥ १ ॥ ] तथा त्रैकालिकस्य लाभालाभ
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444