Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 374
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १९० ॥ Jain Education अ १ एल २ गावो ३ महिसी ४ मिगाणमजिणं च ५ पंचमं होइ । तलिगा १ खल्लग २ बद्धे ३ hter ४ कित्ती य ५ बीयं तु ॥ ६७६ ॥ अजाः- छगलिकाः एडका - अजविशेषाः गावो महिष्यश्च प्रतीताः मृगा- हरिणाः, एतेषां सम्बन्धीनि पञ्च अजिनानि - चर्माणि भवन्ति, अथवा द्वितीयादेशेन इदं चर्मपञ्चकं, यथा - 'तलिग'त्ति उपानहस्ताश्च एकतलिकाः, तदभावे यावच्चतुस्तलिका अपि गृह्यन्ते, अचक्षुर्विषये रात्रौ गम्यमाने सार्थवशाद्दिवापि मार्ग मुक्त्वा उन्मार्गेण गम्यमाने स्तेनश्वापदादिभयेन वा त्वरितं गम्यमाने कण्टकादिसंरक्षणार्थमेताः पादयोः क्रियन्ते यद्वा कश्चित्सुकुमारपादत्वाद्गन्तुमसमर्थो भवति ततः सोऽपि गृह्णातीति, तथा खल्लकानि - पादत्राणानि, यस्य हि पादौ विचर्चिकावातेन स्फुटितौ भवतः स मार्गे गच्छन् तृणादिभिर्दूयते यद्वा कस्यचित्सुकुमारपादत्वात् शीतेन पार्ण्यादिप्रदे| शेषु विपादिकाः स्फुटन्ति ततस्तद्रक्षणार्थं तानि पादयोः परिधीयन्ते, तथा 'वद्धे'त्ति वर्धास्ते च त्रुटितोपानहादिसन्धानार्थं गृह्यन्ते, तथा कोशक: - चर्ममय उपकरण विशेषः, यदि हि कस्यचित्पादनखाः पाषाणादिषु प्रतिस्खलिता भज्यन्ते तदा तेषु कोशकेष्वङ्गुल्योऽङ्गुष्ठो वा क्षिप्यन्ते, अथवा नखरदनिकाधारः कोशकः, तथा कृत्ति : - मार्गे दावानलभयाद्गच्छे यच्चर्म धियते यत्र वा प्रचुरः सचित्तपृथिवीकायो भवति तत्र पृथिवीकाययतनार्थं कृत्तिमास्तीर्य अवस्थानादि क्रियते यद्वा कदाचित्तस्करैर्मुषिता भवेयुस्ततोऽन्यप्रावरणाभावे तामपि प्रावृण्वन्तीत्येतद् द्वितीयं यतिजनयोग्यं चर्मपञ्चकं भवति ८३ || ६७६ ॥ इदानीं 'दूसपंचगं'ति चतुरशीतितमं द्वारमाह अपडिले हिदू से तूली १ उवहाणगं च २ नायव्वं । गंडुवहाणा ३ ऽऽलिंगिणि ४ मसूरए ५ चेव पोत्तम ।। ६७७ ॥ पल्हवि १ कोयवि २ पावार ३ नवयए ४ तह य दाढिगाली य ५ । दुष्पि For Private & Personal Use Only ८२ तृण पंचक ८३ चर्म पंचकं ८४ दूष्यपंचकं गा. ६७५६८० ॥ १९० ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444