Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 377
________________ यावन्मात्रस्य क्षेत्रस्य प्रभवन्ति तावत्प्रमाणं क्षेत्रं राजावग्रहः, तत्र तिर्यग् मागधादिषु तीर्थेषु यावच्चक्रवर्तिनः शरो ब्रजति ऊर्द्धमपि क्षुल्लहिमवद्गिरौ चतुःषष्टिं सूत्रादेशेन द्विसप्ततिं वा योजनानि यावत् , उक्तं च कल्पचूर्णी-'उड़े जाव सरो चेव चुल्लहिमवंतकुमारस्स | मेराए वञ्चति चउसद्धिं जोयणाणि सुत्ताएसेण बावत्तरि'ति, अधस्तु गर्तावटादिषु, ततो भरतक्षेत्रे भरतश्चक्री यतिभिरनुज्ञापयितव्यः, यद्-यस्मात्कारणात् स षट्खण्डमहीनाथः, उपलक्षणमेतत् ततः स्वस्वकाले सगरादयोऽप्यनुज्ञापयितव्याः, एवमैरवतादिष्वपि निजनिजचक्रवर्तिनः २, तथा गृहपतिः-देशस्य-मण्डलस्य नायक:-अधिपतिः तदवग्रहे-तदधिष्ठितमण्डलरूपे वसद्भिः सोऽप्यनुज्ञापयितव्यः ३, तथा सागारिक:-शय्यापतिर्वसतिस्वामीत्यर्थः तमप्यनुज्ञाप्य वृत्तिवरण्डकादिपरिक्षिप्तगृहादिरूपे तवाहे स्थातव्यं, एष च तिर्यक् | विज्ञेयः, अधस्तु द्वयोरपि गृहपतिसागारिकयोर्वापीकूपभूमिगृहादिपर्यन्तः ऊर्दू पुनः पर्वतपादपादिशिखरान्तोऽवग्रह इति ४, तथा समानो धर्मः सधर्मस्तेन चरतीति साधर्मिकः सूरि:-आचार्यः, उपलक्षणत्वादुपाध्यायादिश्व, ततः स आचार्यादिर्यस्मिन् पुरे-नगरे विहितवर्षाकाल:-कृतचतुर्मासकस्तन्नगरं गव्यूतपञ्चकादाक् तस्याचार्यादेः प्रतिबद्धं तद्वग्रह इत्यर्थः, अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासौ, एते पञ्च अवग्रहाः, अतः पञ्चभिरेतैर्देवेन्द्रादिमिरननुज्ञाते अवप्रहे यतीनां सदा-सर्वकालं न कल्पते स्थातुं-अवस्थानं कर्तुमिति, अत्र चोत्तरोत्तरेणावग्रहेण पूर्वः पूर्वो बाधितो बोद्धव्यः, यथा राजावग्रहण देवेन्द्रावग्रहो बाधितः, तथाहि-राजावग्रहे राज्ञ एव प्राधान्यं, न देवेन्द्रस्य, ततस्तत्र राजैवानुज्ञापयितव्यो न तु देवेन्द्र इति, एवं राजावग्रहमपि गृहपत्यवग्रहो बाधते, तमपि सागारिकावग्रहः, तमपि साधर्मिकावग्रह इति ।। ८५ ॥ ६८२ ॥ ६८३ ॥ ६८४ ॥ इदानीं 'परीसह'त्ति षडशीतं द्वारमाह खुहा १ पिवासा २ सी ३ उण्हं ४, दंसा ५ चेला ६ रइ ७थिओ८ । चरिया ९ निसीहिया lain Education For Private Personal Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444