________________
यावन्मात्रस्य क्षेत्रस्य प्रभवन्ति तावत्प्रमाणं क्षेत्रं राजावग्रहः, तत्र तिर्यग् मागधादिषु तीर्थेषु यावच्चक्रवर्तिनः शरो ब्रजति ऊर्द्धमपि क्षुल्लहिमवद्गिरौ चतुःषष्टिं सूत्रादेशेन द्विसप्ततिं वा योजनानि यावत् , उक्तं च कल्पचूर्णी-'उड़े जाव सरो चेव चुल्लहिमवंतकुमारस्स | मेराए वञ्चति चउसद्धिं जोयणाणि सुत्ताएसेण बावत्तरि'ति, अधस्तु गर्तावटादिषु, ततो भरतक्षेत्रे भरतश्चक्री यतिभिरनुज्ञापयितव्यः, यद्-यस्मात्कारणात् स षट्खण्डमहीनाथः, उपलक्षणमेतत् ततः स्वस्वकाले सगरादयोऽप्यनुज्ञापयितव्याः, एवमैरवतादिष्वपि निजनिजचक्रवर्तिनः २, तथा गृहपतिः-देशस्य-मण्डलस्य नायक:-अधिपतिः तदवग्रहे-तदधिष्ठितमण्डलरूपे वसद्भिः सोऽप्यनुज्ञापयितव्यः ३, तथा सागारिक:-शय्यापतिर्वसतिस्वामीत्यर्थः तमप्यनुज्ञाप्य वृत्तिवरण्डकादिपरिक्षिप्तगृहादिरूपे तवाहे स्थातव्यं, एष च तिर्यक् | विज्ञेयः, अधस्तु द्वयोरपि गृहपतिसागारिकयोर्वापीकूपभूमिगृहादिपर्यन्तः ऊर्दू पुनः पर्वतपादपादिशिखरान्तोऽवग्रह इति ४, तथा समानो धर्मः सधर्मस्तेन चरतीति साधर्मिकः सूरि:-आचार्यः, उपलक्षणत्वादुपाध्यायादिश्व, ततः स आचार्यादिर्यस्मिन् पुरे-नगरे विहितवर्षाकाल:-कृतचतुर्मासकस्तन्नगरं गव्यूतपञ्चकादाक् तस्याचार्यादेः प्रतिबद्धं तद्वग्रह इत्यर्थः, अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासौ, एते पञ्च अवग्रहाः, अतः पञ्चभिरेतैर्देवेन्द्रादिमिरननुज्ञाते अवप्रहे यतीनां सदा-सर्वकालं न कल्पते स्थातुं-अवस्थानं कर्तुमिति, अत्र चोत्तरोत्तरेणावग्रहेण पूर्वः पूर्वो बाधितो बोद्धव्यः, यथा राजावग्रहण देवेन्द्रावग्रहो बाधितः, तथाहि-राजावग्रहे राज्ञ एव प्राधान्यं, न देवेन्द्रस्य, ततस्तत्र राजैवानुज्ञापयितव्यो न तु देवेन्द्र इति, एवं राजावग्रहमपि गृहपत्यवग्रहो बाधते, तमपि सागारिकावग्रहः, तमपि साधर्मिकावग्रह इति ।। ८५ ॥ ६८२ ॥ ६८३ ॥ ६८४ ॥ इदानीं 'परीसह'त्ति षडशीतं द्वारमाह
खुहा १ पिवासा २ सी ३ उण्हं ४, दंसा ५ चेला ६ रइ ७थिओ८ । चरिया ९ निसीहिया
lain Education
For Private
Personal Use Only
M
ainelibrary.org