Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लेहियदूसे एयं बीयं भवे पणगं ॥ ६७८ ॥ पल्हवि हत्थुत्थरणं कोयवओ रूयपूरिओ पडओ। दढगाली धोयपोती सेस पसिद्धा भवे भेया ॥ ६७९॥ खरडो १ तह वोरुट्ठी २ सलोमपडओ
३ तहा हवइ जीणं ४ । सदसं वत्थं ५ पल्हविपमुहाणमिमे उ पज्जाया ॥ ६८०॥ । 'अप्पे' त्यादिगाथाचतुष्कं, दूष्यं-वस्त्रं, तद् द्विविधं-अप्रत्युपेक्षं दुष्प्रत्युपेक्षं च, तत्र यत्सर्वथाऽपि न प्रत्युपेक्षितुं शक्यते तद्प्रत्यु
पेक्षं, यच्च सम्यक् न शक्यते प्रत्युपेक्षितुं तद् दुष्प्रत्युपेक्षं, तत्र अप्रत्युपेक्षितदूष्यपञ्चकं यथा-तूली-सुसंस्कृतरूतभृतोऽर्कतूलादिभृतो * वा विस्तीर्णः शयनीयविशेषः, तथा उपधानक-हंसरोमादिपूर्णमुच्छीर्षकं, तथा उपाधानकस्योपरि कपोलप्रदेशे या दीयते सा गण्डो
पधानिका गल्लमसूरिकेत्यर्थः, तथा जानुकूर्परादिषु या दीयते सा आलिङ्गिनी, तथा वस्त्रकृतं चर्मकृतं वा वृत्तं बूर्यादिपूर्णमासनं मसूरकः, |एतानि सर्वाण्यपि पोतमयानि-वस्त्रमयानि प्रायेणेति ॥ ६७७ ॥ अथ दुष्प्रत्युपेक्षितपञ्चकमाह-पल्लविः कोयविः प्रावारकः नवतकं तथा दृढगालिश्च एतद् दुष्प्रत्युपेक्षितदूष्यविषयं द्वितीयं पञ्चकं भवेत् ॥ ६७८ ॥ अथैतदेव व्याख्यानयन्नाह-पल्हविः-हस्त्यास्तरणं, हस्तिनः | पृष्ठे यदास्तीर्यते खरड इत्यर्थः ये चान्ये आस्तरकादयोऽल्परोमयुक्ता बहुरोमयुक्ता वा ते सर्वेऽप्यत्रान्तर्भवन्ति, यदुक्तं निशीथचूणौं|"जे य वडुअत्थरगइच्चाई माणभेआ महरोमा उल्लुतरोमा वा ते सव्वे इत्थ निवयंति"त्ति 'वडुअत्थरगाइ'त्ति यः किल उष्ट्रोपरि न्यस्यते, तथा कोयविको-रूतपूरितः पटः, वूरुट्ठीति यदुच्यते, ये चान्ये उल्बणरोमाणो नेपालकम्बलप्रभृतयस्ते सर्वे अत्रान्तर्भवन्ति, उक्तं च-"जे अन्ने एवमाइभेआ उव्वणरोमा कंबलगाइआ ते सव्वे इत्थ निवयंति"ति, तथा दृढगालिधौतपोतिका ब्राह्मणानां सम्बन्धि सदशं परिधानवस्त्रमित्यर्थः, ये चान्ये द्विसरसूत्रपटीप्रभृतयो भेदास्ते सर्वेऽत्र निपतन्ति, उक्तं च-"विरलिमाई भूरिभेआ सब्वे इत्य
For Private & Personal use only
dw.jainelibrary.org

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444