SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ लेहियदूसे एयं बीयं भवे पणगं ॥ ६७८ ॥ पल्हवि हत्थुत्थरणं कोयवओ रूयपूरिओ पडओ। दढगाली धोयपोती सेस पसिद्धा भवे भेया ॥ ६७९॥ खरडो १ तह वोरुट्ठी २ सलोमपडओ ३ तहा हवइ जीणं ४ । सदसं वत्थं ५ पल्हविपमुहाणमिमे उ पज्जाया ॥ ६८०॥ । 'अप्पे' त्यादिगाथाचतुष्कं, दूष्यं-वस्त्रं, तद् द्विविधं-अप्रत्युपेक्षं दुष्प्रत्युपेक्षं च, तत्र यत्सर्वथाऽपि न प्रत्युपेक्षितुं शक्यते तद्प्रत्यु पेक्षं, यच्च सम्यक् न शक्यते प्रत्युपेक्षितुं तद् दुष्प्रत्युपेक्षं, तत्र अप्रत्युपेक्षितदूष्यपञ्चकं यथा-तूली-सुसंस्कृतरूतभृतोऽर्कतूलादिभृतो * वा विस्तीर्णः शयनीयविशेषः, तथा उपधानक-हंसरोमादिपूर्णमुच्छीर्षकं, तथा उपाधानकस्योपरि कपोलप्रदेशे या दीयते सा गण्डो पधानिका गल्लमसूरिकेत्यर्थः, तथा जानुकूर्परादिषु या दीयते सा आलिङ्गिनी, तथा वस्त्रकृतं चर्मकृतं वा वृत्तं बूर्यादिपूर्णमासनं मसूरकः, |एतानि सर्वाण्यपि पोतमयानि-वस्त्रमयानि प्रायेणेति ॥ ६७७ ॥ अथ दुष्प्रत्युपेक्षितपञ्चकमाह-पल्लविः कोयविः प्रावारकः नवतकं तथा दृढगालिश्च एतद् दुष्प्रत्युपेक्षितदूष्यविषयं द्वितीयं पञ्चकं भवेत् ॥ ६७८ ॥ अथैतदेव व्याख्यानयन्नाह-पल्हविः-हस्त्यास्तरणं, हस्तिनः | पृष्ठे यदास्तीर्यते खरड इत्यर्थः ये चान्ये आस्तरकादयोऽल्परोमयुक्ता बहुरोमयुक्ता वा ते सर्वेऽप्यत्रान्तर्भवन्ति, यदुक्तं निशीथचूणौं|"जे य वडुअत्थरगइच्चाई माणभेआ महरोमा उल्लुतरोमा वा ते सव्वे इत्थ निवयंति"त्ति 'वडुअत्थरगाइ'त्ति यः किल उष्ट्रोपरि न्यस्यते, तथा कोयविको-रूतपूरितः पटः, वूरुट्ठीति यदुच्यते, ये चान्ये उल्बणरोमाणो नेपालकम्बलप्रभृतयस्ते सर्वे अत्रान्तर्भवन्ति, उक्तं च-"जे अन्ने एवमाइभेआ उव्वणरोमा कंबलगाइआ ते सव्वे इत्थ निवयंति"ति, तथा दृढगालिधौतपोतिका ब्राह्मणानां सम्बन्धि सदशं परिधानवस्त्रमित्यर्थः, ये चान्ये द्विसरसूत्रपटीप्रभृतयो भेदास्ते सर्वेऽत्र निपतन्ति, उक्तं च-"विरलिमाई भूरिभेआ सब्वे इत्य For Private & Personal use only dw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy