________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १९० ॥
Jain Education
अ १ एल २ गावो ३ महिसी ४ मिगाणमजिणं च ५ पंचमं होइ । तलिगा १ खल्लग २ बद्धे ३ hter ४ कित्ती य ५ बीयं तु ॥ ६७६ ॥
अजाः- छगलिकाः एडका - अजविशेषाः गावो महिष्यश्च प्रतीताः मृगा- हरिणाः, एतेषां सम्बन्धीनि पञ्च अजिनानि - चर्माणि भवन्ति, अथवा द्वितीयादेशेन इदं चर्मपञ्चकं, यथा - 'तलिग'त्ति उपानहस्ताश्च एकतलिकाः, तदभावे यावच्चतुस्तलिका अपि गृह्यन्ते, अचक्षुर्विषये रात्रौ गम्यमाने सार्थवशाद्दिवापि मार्ग मुक्त्वा उन्मार्गेण गम्यमाने स्तेनश्वापदादिभयेन वा त्वरितं गम्यमाने कण्टकादिसंरक्षणार्थमेताः पादयोः क्रियन्ते यद्वा कश्चित्सुकुमारपादत्वाद्गन्तुमसमर्थो भवति ततः सोऽपि गृह्णातीति, तथा खल्लकानि - पादत्राणानि, यस्य हि पादौ विचर्चिकावातेन स्फुटितौ भवतः स मार्गे गच्छन् तृणादिभिर्दूयते यद्वा कस्यचित्सुकुमारपादत्वात् शीतेन पार्ण्यादिप्रदे| शेषु विपादिकाः स्फुटन्ति ततस्तद्रक्षणार्थं तानि पादयोः परिधीयन्ते, तथा 'वद्धे'त्ति वर्धास्ते च त्रुटितोपानहादिसन्धानार्थं गृह्यन्ते, तथा कोशक: - चर्ममय उपकरण विशेषः, यदि हि कस्यचित्पादनखाः पाषाणादिषु प्रतिस्खलिता भज्यन्ते तदा तेषु कोशकेष्वङ्गुल्योऽङ्गुष्ठो वा क्षिप्यन्ते, अथवा नखरदनिकाधारः कोशकः, तथा कृत्ति : - मार्गे दावानलभयाद्गच्छे यच्चर्म धियते यत्र वा प्रचुरः सचित्तपृथिवीकायो भवति तत्र पृथिवीकाययतनार्थं कृत्तिमास्तीर्य अवस्थानादि क्रियते यद्वा कदाचित्तस्करैर्मुषिता भवेयुस्ततोऽन्यप्रावरणाभावे तामपि प्रावृण्वन्तीत्येतद् द्वितीयं यतिजनयोग्यं चर्मपञ्चकं भवति ८३ || ६७६ ॥ इदानीं 'दूसपंचगं'ति चतुरशीतितमं द्वारमाह
अपडिले हिदू से तूली १ उवहाणगं च २ नायव्वं । गंडुवहाणा ३ ऽऽलिंगिणि ४ मसूरए ५ चेव पोत्तम ।। ६७७ ॥ पल्हवि १ कोयवि २ पावार ३ नवयए ४ तह य दाढिगाली य ५ । दुष्पि
For Private & Personal Use Only
८२ तृण
पंचक
८३ चर्म
पंचकं
८४ दूष्यपंचकं
गा. ६७५६८०
॥ १९० ॥
jainelibrary.org