SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ जलभयेन-यथाऽप्कायेन न स्पृश्यत इति ॥ ६७२ ॥ ६७३ ॥ इदानीमेतेषां दण्डानां शुभाशुभस्वरूपप्रतिपादनायाह-विसे'त्यादि, पूर्वोक्तेषु पञ्चसु दण्डकेषु पर्वाणि-प्रन्थिमध्यानि एवंविधानि शुभानि भवन्तीति सम्बन्धः, तत्र विषमाणि-एकत्रिपञ्चसप्तनवरूपाणि तथा * दश च-दशसङ्ख्यानि तथा वर्धमानानि-उपर्युपरि प्रवर्धमानमानानि तथा एकवर्णानि-न पुनश्चित्तलकानि तथा 'अपोल्लाई' अशुषिराणि निबिडानीत्यर्थः एवंविधविशेषणविशिष्टपर्वोपेताः स्निग्धवर्णा मसृणा वर्तुलाश्च दण्डका यतिजनस्य प्रशस्ता इति भावः, 'सेसाई असुहाईति शेषाणि-पूर्वोक्तविशेषणविपरीतस्वरूपाणि पर्वाणि अशुभानि-अप्रशस्तानीति, एकादिपर्वाणां च शुभाशुभफलमित्थमोपनियुक्तावुक्तं, यथा-"एगपव्वं पसंसंति, दुपव्वा कलहकारिया । तिपव्वा लाभसंपन्ना, चउपव्वा मारणंतिया ॥१॥ पंचपव्वा य जा लट्ठी, पंथे कलनिवारिणी । छपवाए य आयंको, सत्तपव्वा निरोगिया ॥२॥ अट्ठपव्वा असंपत्ती, नवपव्वा जसकारिया । दसपव्वा उ जा लट्ठी, तहियं सव्वसंपया ॥ ३ ॥” इति ८१ ॥ ६७४ ॥ इदानीं 'तणपणगंति व्यशीतितमं द्वारमाह तणपणगं पुण भणियं जिणेहिँ जियरागदोसमोहेहिं । साली १ वीहिय २ कोद्दव ३ रालय ४ रन्ने तणाई च ५॥ ६७५॥ तृणपञ्चकं पुनर्भणितं जिनैर्जितरागद्वेषमोहैर्यथा शालिव्रीहिककोद्रवरालकसम्बन्धीनि तृणानि-पलालप्रायाणि अरण्ये-अरण्यविषयाणि च, तत्र शालयः-कलमशालिप्रभृतयः ब्रीयः-पष्टिकादयः कोद्रवो-धान्यविशेषः प्रतीतः रालक:-कॉविशेषः अरण्यतृणानिश्यामाकप्रमुखानि ।। ८२ ।। ६७५ ॥ इदानीं 'चम्मपंचगं'ति व्यशीतितमं द्वारमाह in Education For Private & Personel Use Only Chinaw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy