________________
Jain Education Int
| जीवितमरणादि परिकथयति स प्रश्नाप्रश्नः उक्तं च - "पसिणापसिणं सुमिणे विज्जासिद्धं कहेइ अन्नस्स | अहवा आइंखणियाघंटियसिहं | परिकहेइ ॥ १ ॥” [ प्रश्नाप्रश्नः स्वप्ने विद्याशिष्टं अन्यस्मै कथयति । अथवा आखिंणिकाघण्टिकाशिष्टं परिकथयति ॥ १ ॥ ] तथा नि'मित्तं - अतीतानागतवर्तमानवस्तुपरिज्ञानहेतुर्ज्ञान विशेषः, उक्तं च- "तिविहं होइ निमित्तं तीयपडुप्पण्णऽनागयं चैव । तेण विणा उन नेयं नज्जइ तेणं निमित्तं तु ॥ १ ॥” [ त्रिविधं भवति निमित्तमतीतं वर्त्तमानमनागतं चैव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु ॥ १ ॥ ] एतानि च कौतुकभूतिकर्मादीनि गौरवादिनिमित्तं कुर्वाणः साधुरभियोगनिर्वृत्तं कर्म बघ्नाति, अपवादपदेन तु गौरवरहितः सन्नतिशयज्ञाने सति निःस्पृहवृत्त्या यदा करोति तदाऽसौ आराधक एवं उच्यं च गोत्रं बनातीति तीर्थोन्नतिकरणात् उक्तं च- " एयाणि गारवट्ठा कुणमाणो आभियोगियं बंधे । बीयं गारवरहिओ कुब्बइ आराहगुचं च ॥ १॥" [ एतानि गौरवार्थं कुर्वन् आभियोगिकं बध्नाति | द्वितीयं पदं गौरवरहितः करोति आराधक उच्चैर्गोत्रं च ॥ १ ॥ ] ॥ ६४४ ॥ अथ आसुरी भावनां पञ्चभेदामाह - 'सई'त्यादि, सदा विग्रहशीलत्वं १ संसक्ततपः २ निमित्तकथनं च ३ निष्कृपताऽपि चापरा ४ पञ्च मकं च निरनुकम्पत्व ५ मिति, तत्र 'सदा' सर्वकालं 'विग्रहशीलत्वं' पश्चादननुतापितया क्षमणादावपि प्रसस्त्यप्राप्त्या च विरोधानुबन्धः, यदाह " निचं विग्गहसीलो काऊण य नाणुतप्पई पच्छा । न य खामिओ पसीयइ सपक्खपरपक्खओ वावि ॥ १ ॥” [ नित्यं विग्रहशीलः कृत्वा च पश्चान्नानुतप्यते न च क्षमितः प्रसीदति स्वपक्षपरपक्षतो वाऽपि ॥ १ ॥ ] तथा संसक्तस्य - आहारोपधिशय्यादिषु सदा प्रतिबद्धभावस्य आहाराद्यर्थमेव च तपः - अनशनादितपश्चरणं संसक्ततपः, यदाह - " आहारउवहि सेज्जासु जस्स भावो उ निश्वसंसत्तो । भावोवहओ कुणइ व तवोवहाणं तदट्ठाए ॥ १ ॥” [ आहारोपधिशय्यासु यस्य तु भावो नित्यं संसक्तः । उपहतभावो वा करोति तपउपधानं तदर्थाय ॥ १ ॥ ] तथा त्रैकालिकस्य लाभालाभ
For Private & Personal Use Only
ainelibrary.org