SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १८१ ॥ Jain Education इरोसा गिहिवच्छलगा य संचइगा ॥ १ ॥” [ अविषहणा अत्वरितगतयः गुरूणामप्यननुवृत्तयः । क्षणमात्रप्रीतिरोषाः गृहिवत्सलकाच संचयिकाः ॥ १ ॥ ] अन्यैरप्युक्तं - "अनित्यताशब्दमुदाहरन्ति भग्नां च तुम्बीं परिशोचयन्ति । यथा तथाऽन्यं च विकत्थयन्ति, हरीतकीं नैव परित्यजन्ति ॥ १ ॥" अन्यत्र तु 'सव्वसाहूणं'ति पठित्वा 'मायी'ति भिन्नैव पञ्चमी भावना प्रतिपादिता, यथा - "गूहइ आयसहावं छायइ य गुणे परस्स संतेवि । चोरोव्व सब्वसंकी गूढायारो हवइ माई || १ || ” [ गूहते आत्मस्वभावं परस्य च सतोऽपि गुणान् आच्छादयति । चौर इव सर्वशङ्की गूढाचारो भवति मायी ॥ १ ॥ ] ॥ ६४३॥ अथ आभियोगीं भावनां पञ्चभेदामाह - 'कोउये 'त्यादि, अत्र सप्तमी तृतीयार्थे ततः कौतुकेन १ भूतिकर्मणा २ प्रश्नेन ३ प्रश्नाप्रश्नेन ४ निमित्तेन ५ च पञ्चविकल्पा-पश्चभेदा भवेत् सा च-आमियोगिकी भावना, तत्र बालादीनां रक्षादिकरणनिमित्तं स्नपनकरभ्रमणाभिमन्त्रणधुकरणधूपदानादि यत्क्रियते तत्कौतुकं उक्तं च|" विण्हवणहोमसिर परिरया य खारडहणाइं धूवे य । असरिसवेसग्गहणं अवतासणउच्छुभणबंधा ॥ १ ॥” [ अपि स्नपनहोमशिरः परिरयाश्च क्षारदहनानि धूपश्च । असदृशवेषग्रहणं अवत्रासनं क्षेपणं बन्धः ॥ १ ॥ ] तथा च सति शरीरभाण्डकरक्षार्थं भस्मसूत्रादिना यत्परिवेष्टनकरणं तद् भूतिकर्म, उक्तं च- "भूईए मट्टियाइ व सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडयरक्खा अभिओगमाईया ॥ १ ॥” [ भूत्या मृत्तिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसतिशरीरभाण्डरक्षा अभियोगादिकाश्च ॥ १ ॥ ] तथा यत्परस्य पार्श्वे लाभालाभादि पृच्छयते स्वयं वा अङ्गुष्ठदर्पणखङ्गतोयादिषु दृश्यते स प्रश्नः उक्तं च - " पण्हो य होइ पसिणं जं पासइ वा सयं तु तं पसिणं । अंगुङ्कुचिट्ठपए दप्पणअसितोयकुड्डाई ॥ १ ॥” [ प्रश्नश्च भवति प्रच्छनं यत् पश्यति वा स्वयं तु स प्रश्नः । अङ्गुष्ठोच्छिष्टपदे दर्पणासितोयकुड्यादिषु ॥ १ ॥ ] तथा स्वप्ने स्वयं विद्यया कथितं घण्टिकाद्यवतीर्णदेवतया वा कथितं सत् यदन्यस्मै शुभाशुभ For Private & Personal Use Only ७३ अशुभभावनाः गा. ६४१. ६४६ ॥ १८१ ॥ v.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy