________________
प्र. सा. ३१
Jain Education
ज्योतिःशास्त्रेण ?, तथा मोक्षार्थमभ्युद्यतानां यतीनां किं योनिप्राभृतोपनिबन्धेन ?, भवहेतुत्वाज्ज्योतिषयोनिप्राभृतप्रभृतीनामिति, उक्तं च - " काया क्या य तेच्चिय ते चैव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कज्जं ? || १ ||" [ कायाः व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतिषयोनिभिः किं कार्यम् ? ॥ १ ॥ ] केवलिनामवर्णवादो यथा-किमेषां ज्ञानदर्शनोपयोगौ क्रमेण भवत उत युगपत् ?, तत्र यदि क्रमेणेति पक्षः कक्षीक्रियते तदा ज्ञानकाले न दर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपदिति द्वितीयः पक्षः सोऽप्ययुक्तः, यत एककालत्वाद् द्वयोरप्येकतापऽऽत्तिः प्राप्नोति, उक्तं च- "एग तरसमुप्पाए अन्नोऽन्नावरणया दुवेहंपि । केवल सणणाणाणमेगकाले य एगत्तं ॥ १ ॥ [ एकतरसमुत्पादे अन्योऽन्यावरणता द्वयोरपि | केवलज्ञानदर्शनयोः एककाले एकत्वं ॥ १ ॥ ] धर्माचार्याणामवर्णवादो यथा- न शोभनैतेषां जातिः नैते लोकव्यवहारकुशलाः न चैते औचित्यं विदन्तीत्यादि विविधं गुरून् प्रति भाषते, न चैतेषां विनयवृत्त्या वर्तते, तथा अहितरिछद्राण्यन्वेषयन् सर्वसमक्षं गुरूणामेवा - सतोऽपि दोषान् वदति, सर्वदैव च तेषां प्रतिकूलतामाचरतीति उक्तं च - "जचाईहिं अवण्णं विभासइ वट्टइ न यावि उववाए। अहिओ छिप्पेही पगासवाई अणणुकूलो || १ ||” [ जात्यादिभिरवर्णं विभाषते न चाप्युपपाते वर्त्तते । अहितश्छिद्रपेक्षी प्रकाशवाद्यननुकूलः ॥ १ ॥ ] सङ्घस्यावर्णवादो यथा - बहवश्व पशुशृगालादीनां सङ्घाः तत्कोऽयमिह सङ्घो भवतामाराध्य इत्यादि वदति, साधूनामवर्णवादो यथा - नामी साधवः परस्परमपि सहन्ते अत एव देशान्तरं परस्परस्पर्धया परिभ्रमन्ति अन्यथा एकत्रैव संहत्या तिष्ठेयुः, तथा मायावितया सर्वदैव लोकावर्जनाय मन्दगामिनः, महतोऽपि च प्रति प्रकृत्यैव निष्ठुराः, तदैव रुष्टास्तदैव तुष्टाच, तथा गृहिभ्यस्तैस्तैश्चादुवचनैरात्मानं रोचयन्ति, सर्वदा सर्ववस्तुसञ्चयपराव, उक्तं च - "अविसहणाऽतुरियगई अणाणुवित्तीय अवि गुरुपि । खणमित्तपी
For Private & Personal Use Only
www.jainelibrary.org