SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ P प्रव० सारोद्धारे तत्त्वज्ञानवि० RAD ॥१८ ॥ स्फुटति च एतद् दुःशीलत्वं, यदुक्तम्-भासइ दुर्य दुयं गच्छए य दरिओव्व गोव सो सरए । सव्वदुयहुयकारी फुट्टइ व ठिओवि ७३ अशुभदप्पेणं ॥१॥" [भाषते द्रुतं द्रुतं गच्छति च दृप्तो गौरिव शरदि । सर्वद्रुतद्रुतकारी स्थितोऽपि दर्पण स्फुटतीव ॥ १॥] तथा| भावनाः भाण्ड इव परेषां छिद्राणि-विरूपवेषभाषाविषयाणि निरन्तरमन्वेषयन् विचित्रैस्तादृशैरेव वेषवचनैर्यद् द्रष्टुणामात्मनश्च हासं जनयति गा. ६४१ तद् हास्यकारणं, यदुक्तम्-"वेसवयणेहिं हास जणयंतो अप्पणो परेसिं च । अह हासणोत्ति भन्नइ घयणोव्व छले नियच्छन्तो ॥१॥"ता [ वेषवचनाभ्यां हास्यमात्मनः परेषां च जनयन् । अथ हास्यकारक इति भण्यते भाण्ड इव छलं पश्यन् ॥ १ ॥] 'घयणो'त्ति भाण्डः, तथा इन्द्रजालप्रभृतिभिः कुतूहलैः प्रहेलिकाकुहेटिकादिमिश्च तथाविधग्राम्यलोकप्रसिद्धैर्यात्स्वयमविस्मयमानो बालिशप्रायस्य जनस्य मनोविभ्रममुत्पादयति तत्परविस्मयजननं, यदुक्तम्-"सुरजालमाइएहिं तु विम्हयं कुणइ तविहजणस्स । तेसु न विम्हयइ सयं आहट्टकुहेडएहिं च ॥१॥" [तद्विधजनस्येन्द्रजालादिभिर्विस्मयं करोति । तः न स्वयं विस्मयते प्रहेलिकाकुहेडकैः ॥ १॥] अत्र 'आहट्ट'त्तिप्रहेलिका कुहेडकः-आमाणकप्रायः प्रसिद्ध एव ॥ ६४२ ॥ अथ देवकिल्बिषीं भावनां पञ्चविधामाह-'सुये'त्यादि, श्रुतज्ञानस्य-द्वादशाङ्गी-1 रूपस्य केवलिना-केवलज्ञानवता धर्माचार्याणां-धर्मोपदेष्टणां सङ्घस्य-साधुसाध्वीश्रावकश्राविकासमुदायरूपस्य साधूनां-यतीनां अवर्णवादी मायी च-खशक्तिनिगृहनादिना मायावान् देवकिल्विषीं भावनां करोति, तत्र अवर्ण:-अश्लाघा असद्दोषोद्घट्टनमितियावत् , स चैवं श्रुतज्ञानस्य-पृथिव्यादयः कायाः षड्जीवनिकायामपि व्यावर्ण्यन्ते शस्त्रपरिज्ञाध्ययनादिष्वपि बहुशस्त एव, एवं व्रतान्यपि-प्राणातिपातनिवृत्त्यादीनि तान्येव पुनः पुनस्तेषु तेषु सूत्रेषु प्रतिपाद्यन्ते, तथा त एव प्रमादा-मद्यादयः अप्रमादाश्व-तद्विपक्षभूता भूयो ॥१८॥ भूयश्च तत्र तत्र कथ्यन्ते, न पुनरधिकं किञ्चिद्पीति पुनरुक्तदोषः, अन्यच मोक्षार्थ घटयितव्यमितिकृत्वा किं सूत्रे सूर्यप्रज्ञत्यादिना %* Jain Educationrnetri For Private Personel Use Only D ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy