________________
Jain Education
'भइओ चरणहीणो 'ति यः पुनः सर्वथापि चारित्ररहितः सभाज्यो - विकल्पनीयः, कदाचित्तद्विधेष्वेव सुरेषूत्पद्यते कदाचिच नारकतिर्यक्कुमानुषे| ष्विति ॥ ६४१ ॥ एताश्च पञ्चापि भावनाः प्रत्येकं पञ्भ्वविधाः, तत्र प्रथमं पञ्चविधां कन्दर्पभावनामाह - 'कंदप्पे त्यादि, कन्दर्पे कौकुच्ये दुःशीलत्वे हास्यकारणे परविस्मयजननेऽपि च विषये भवति कन्दर्प :- कन्दर्पविषया भावना कान्दर्पिकी इत्यर्थः, 'अनेक विधा' पश्वप्रकारा, तत्र उच्चैःस्वरेण हसनं तथा परस्परं परिहासः तथा गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादयः स्वेच्छालापाः तथा कामकथाकथनं तथा एवं चैवं च कुर्विति विधानद्वारेण कामोपदेशः तथा कामविषया प्रशंसा च कन्दर्पशब्देनोच्यते, तदुक्तम् — ' कहकहकहस्स हसणं कंदप्पो अणिहुया य संलावा । कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥ १ ॥” [ कहकहकहेति हसनं कन्दर्पः अनिभृताञ्च संलापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशः कन्दर्पप्रशंसा च ॥१॥ ] तथा कुकुचो - भाण्डचेष्टा तस्य भावः कौकुच्यं तद् द्वेधा - कायकौकुन्यं वाक्कौकुच्यं च तत्र कायकौकुच्यं यत्स्वयमहसन्नेव भ्रूनयनादिभिर्देहावयवैर्हासकारकैस्तथा तथा चेष्ठां करोति यथा परो हसतीति, यदुक्तम्- 'भुमनयणवयणदसणच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह हस्सए परो अत्तणा अहसं ॥ १ ॥” [ नयनवदनदशनच्छदेन करचरणकर्णा| दिभिः । तत्तत् करोति यथा परो हसति आत्मनाऽहसन् ॥ १ ॥] वाक्कौकुच्यं तु यत्परिहासप्रधानैस्तैस्तैर्वचन जातैर्विविधजीवविरुतैर्मु- + खातोयवादितया च परं हासयतीति, यदुक्तम् - "वाया कुक्कुइओ पुण तं जंपइ जेण हस्सए अन्नो । नाणाविहजीवरुए कुम्बइ मुहतूरए चैव ॥ १ ॥” [ वाकौत्कुचिकः पुनस्तत् जल्पति येन हसति अन्यः । नानाविधजीवरुतानि मुखतूर्यमेव च करोति ॥ १ ॥ ] तथा दुष्टं शीलं - स्वभावो यस्य स दुःशीलः तद्भावो दुःशीलत्वं, तत्र यत्सम्भ्रमावेशवशादपर्यालोच्य द्रुतं द्रुतं भाषते यच्च शरत्काले दर्पोर प्रधानबलीवई इव द्रुतं द्रुतं गच्छति यच्च सर्वत्रासमीक्षितं कार्य द्रुतं द्रुतं करोति यश्च स्वभावस्थितोऽपि तीत्रोद्रेकवशाद्दर्पेण स्फुटतीव
For Private & Personal Use Only
w.jainelibrary.org