SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० भावनाः गा.६४१६४६ ॥१८२॥ सुखदुःखजीवितमरणविषयस्य निमित्तस्य कथनं-अभिमानाभिनिवेशाद्व्याकरणं, यदाह-"तिबिहनिमित्तं एकेक छव्विहं जं तु वन्नियं पुव्वं । अभिमाणाभिनिवेसा वागरियं आसुरं कुणइ ॥ १॥"[त्रिविधं निमित्तमेकैकं षड्डिधं यत्तु पूर्व वर्णितं । अभिमानादभिनिवेशाच्च | व्याकृतमासुरी करोति ॥ १॥] तथा स्थावरादिसत्त्वेष्वजीवप्रतिपत्त्या गतघृणः कार्यान्तरव्यासक्तः सन् गमनासनादि यः करोति कृत्वा च नानुतप्यते केनचिदुक्तः सन् स निष्कृपः तद्भावो निष्कृपता, यदाहुः-"चंकमणाईसु सत्तो सुनिक्किवो थावराइसत्तेसुं । काउं च नाणुतप्पइ एरिसओ निक्किवो होइ ॥ १॥" [चक्रमणादिषु सक्तः सुनिष्कृपः स्थावरादिसत्त्वेषु कृत्वा च नानुतप्यते ईदृशो निकृपो भवति ॥ १॥] तथा यः कृपापात्रं कुतश्चिद्धेतोः कम्पमानमपि परं दृष्ट्वा क्रूरतया कठिनभावः सन् नानुकम्पाभाग्भवति स निरनुकम्पः तस्य भावो निरनुकम्पत्वं, यदाह-"जो उ परं कंपंत दवण न कंपए कढिणभावो । एसो य निरणुकंपो पन्नत्तो वीयरागेहिं ॥१॥" [ यस्तु परं कम्पमानं दृष्ट्वा नानुकम्पते कठिनभावः । एष च निरनुकम्पः प्रज्ञप्तो वीतरागैः ॥१॥] ॥६४५।। अथ सांमोही भावनां पञ्चविधामाह-'उम्मग्गे'त्यादि, उन्मार्गदेशना १ मार्गदूषणं २ मार्गविप्रतिपत्तिः ३ मोहः ४ मोहजननं च ५ एवं सा सांमोही भावना भवति पञ्चविधा, तत्र पारमार्थिकानि ज्ञानादीन्यदूषयन्नेव तद्विपरीतं धर्ममार्ग यदुद्दिशति सा उन्मार्गदेशना, आह च-नामाणादि अदूसितो तब्विवरीयं तु उवदिसइ मग्गं । उम्मग्गदेसगो एस आयअहिओ परेसिं च ॥ १॥" [ज्ञानादि अदूषयन तद्विपरीतं तु देशयति मार्गम् । उन्मार्गदेशक एष आत्मनोऽहितः परेषां च ॥१॥] तथा पारमार्थिकं ज्ञानदर्शनचारित्रलक्षणं भावमार्ग तत्प्रतिपन्नांश्च साधून पण्डितमानी खमनीषानिर्मितर्जातिदूषणैर्यद् दूषयति तन्मार्गदूषणं, आह च-"नाणाइतिहामग्गं दूसइ जो जे य मग्गपडिवन्ना। अबुहो जाईए खलु भन्नइ सो मग्गदूसत्ति ॥१॥" [ज्ञानादिविधामार्ग दूषयति यः ये च मार्गप्रतिपन्नाः (तान् ) अबुधो जात्या | १८२॥ Jain EducationalMonal For Private Personal Use Only
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy