________________
Jain Education
भणति स खलु मार्गदूषक इति भण्यते ॥ १ ॥ ] तथा तमेव ज्ञानादिमार्गमसदूषणैर्दूषयित्वा जमालिवद्देशत उन्मार्ग यत्प्रतिपद्यते सा मार्गविप्रतिपत्तिः, आह् च - " जो पुण तदेव मग्गं दूसित्ता अपंडिओ सतक्काए । उम्मग्गं पडिवज्जइ विप्पडिवण्णो स मग्गस्स ॥ १ ॥ " [ यः पुनस्तमेव मार्ग दूषयित्वाऽपण्डितः स्वतर्केण उन्मार्ग प्रतिपद्यते स मार्गात् विप्रतिपन्नः ॥ १ ॥ ] तथा निकाममुपहतमतिः सन्नतिगहनेषु ज्ञानादिविचारेषु यन्मुह्यति यश्च परतीर्थिक सम्बन्धिनीं नानाविधां समृद्धिमालोक्य मुह्यति स संमोहः, आह च-“ तह तह उवहयमइओ मुज्झइ नाणचरणंतरालेसु । इड्डीओ य बहुविहा दहुं जत्तो तओ मोहो || १ || ” [ तथा तथा उपहमतिकः ज्ञानचरणान्तरेषु मुह्यति बहुविधा ऋद्धीश्च दृष्ट्वा यतः ततो मोहः || १ || ] तथा स्वभावेन कपटेन वा दर्शनान्तरेषु परस्य मोहमुत्पादयति तन्मोहजननं, आह च - " जो पुण मोहेइ परं सब्भावेणं च कइयवेणं वा । संमोहभावणं सो पकरेइ अबोहिलाभाय ॥ १ ॥” [ यो मोह - यति पुनः परान् सद्भावेन कैतवेन वा स सम्मोहीभावनां प्रकरोति अबोधिलाभाय ॥ १ ॥ ] एताश्च पञ्चविंशतिरपि भावनाः सम्यक्चारित्रविघ्नविधायित्वादशुभा इति यतिभिः परिहर्तव्याः, यदुक्तम् - " एयाओ विसेसेणं परिहरइ चरणविग्घभूयाओ । एयनिरोहाउ चिय सम्मं चरपि पार्वति ॥ १ ॥” [ एता विशेषेण परिहरति चरणविघ्नभूताः । एतन्निरोधादेव सम्यक् चरणमपि प्राप्नुवन्ति ॥ १ ॥ ] त्ति ७३ ॥ ६४६ ॥ इदानीं 'संखा महवयाणं' ति चतुःसप्ततं द्वारमाह
पंचवओ खलु धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं चउधिहो होइ विन्नेओ ।। ६४७ ।।
पञ्चतः खलु - प्राणातिपातमृषावादादत्तादानाब्रह्मपरिग्रहविरतिलक्षणपश्ञ्च महाव्रत एवं धर्मः - चारित्रधर्मः पूर्वस्य च - प्रथमस्य च
For Private & Personal Use Only
w.jainelibrary.org