________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १८३ ॥
Jain Education
ऋषभजिनस्य पश्चिमस्य च - चरमस्य वर्धमानजिनस्य मुनीनामिति शेषः, मध्यमकानां - अजितनाथादीनां पार्श्वनाथान्तानां द्वाविंशतेर्जिनानां सम्बन्धिसाधूनां चतुर्व्रतः - चतुर्यामो भवति विज्ञेयः, इह हि तत्तत्कालस्वभावादेव त्रिविधाः पुरुषा भवन्ति - ऋजुजडा वक्रजडा ऋजुप्रज्ञाश्च तत ऋजव :- शाठ्य रहितास्ते च ते जडाश्च तथाविधोहापोहव्यपोहादुक्तमात्रार्थप्राहिण ऋजुजडाः केऽपि प्रथमतीर्थकर - साधवः, ते च नटावलोकनज्ञातेन ज्ञातव्याः, तथाहि -किल केचित् प्रथमतीर्थकरसाधवो विचारगोचराचिरेण वसतावागताः, पृष्टाश्च गुरुमि: - किमिति भश्चिराद्यूयमागताः ?, ते च ऋजुत्वादवोचन् यथा नटं नृत्यन्तमालोकयन्तो वयमस्थाम, ततो गुरुस्तानन्वशात्-यदुत | रागादिनिबन्धनं नटनृत्तावलोकनं मा पुनर्भवन्तो व्यधुः, तेऽपि तथैव गुरूणां गिरं प्रतिपेदिरे, अपरेद्युश्च तथैव ते गुरुपृष्टा व्यजिज्ञपन्यथा नदीं नृत्यन्तीं पश्यन्तः स्थिताः, गुरुभिर्भणितं - ननु पूर्वमेव निषिद्धा यूयं, अथ ते ऋजुजडत्वादूचुः - नटनृत्तनिरीक्षणं भवद्भिः प्रत्यषिद्ध्यत न नदीनृत्तनिरीक्षणमिति, नटे हि निषिद्धे रागनिमित्तत्वान्नटी निषिद्धैवेति प्रत्येतुं तैर्न शकितमिति ते ऋजुजडाः, तथा वक्रजडा :- शठत्वमुग्धत्वधर्मद्वययुक्ताः केचिश्चरमतीर्थकर साधवः, तेऽप्येवमेव नददृष्टान्तेनावगन्तव्याः, नवरं ते तथैव गुरुभिर्निवारिताः पुनरन्यदा नटीनिरीक्षणं कृत्वा चिरादागताः पृष्टाश्च वक्रजडत्वादुदरबाधाद्यसदुत्तराणि वितेरुः, निर्बन्धेन च गुरुभिः पृष्टा अस्माभिर्नटी निरीक्षितेत्युक्तवन्तः, सुतरामुपालब्धाश्च सन्तो जडत्वात्कथितवन्तो-यथा नट एव न द्रष्टव्य इत्यस्माभिरधिगतमासीदिति, तथा आर्जवयुक्ताः प्रज्ञावन्तश्च ऋजुप्रज्ञा मध्यमद्वाविंशतिजिनसाधवो महाविदेहवतिनश्च तेऽपि तथैव नटोदाहरणादेव प्रतिपत्तव्याः, ते हि किल तथैव नटनिरीक्षणं प्रति प्रतिषिद्धाः प्राज्ञत्वात्स्वयं विमृश्य रागादिहेतुतया नटीनिरीक्षणमपि परिहृतवन्तः, ततश्च मध्यमजिनसाधव ऋ| जुत्वेन यथोपदिष्टानुपालनात् प्राज्ञत्वेनोपदेशमात्रादप्यशेषहेयार्थायूहनेन तत्परिहारसमर्थत्वाच्च सुखप्रतिबोध्याः, अतो न अपरिगृहीतायाः
For Private & Personal Use Only
७४ महात्रतसंख्या
गा. ६४७
॥ १८३ ॥
Jainelibrary.org