________________
स्त्रियः परिभोगः स्यादिति परिग्रहविरमणेनैव मैथुनविरति प्रतिपद्यन्ते इत्यतस्तेषां परमार्थतः पञ्चयामोऽपि चतुर्यामः, प्रथमजिनसाधूनां तु ऋजुजडत्वेन बहुधा बहुभिश्चोपदेशैः समस्तहेयार्थज्ञानसम्भवात् चरमजिनसाधूनां च वक्रजडत्वात्तेन तेन व्याजेन हेयार्थसेवासम्भवात्परिग्रहबिरतिब्रतेनैव मैथुनविरतिव्रतं सगृहीतमिति न प्रतिपत्तिः ततः पञ्चयाम एव तेषां धर्म इति ७४ ।। ६४७ ॥ इदानी "किइकम्माण य दिणे संख'त्ति पञ्चसप्ततं द्वारमाह. चत्तारि पडिक्कमणे किहकम्मा तिणि हंति सज्झाए । पुचण्हे अवरण्हे किहकम्मा चउदस ह..
वंति ॥ ६४८॥ - चत्वारि प्रतिक्रमणे कृतिकर्माणि-वन्दनकानि भवन्ति, तत्र आलोचनवन्दनकं प्रथमं क्षामणकवन्दनकं द्वितीयं आचार्यप्रभृतिसर्वस-1 स्य क्षमणपूर्वमाश्रयणाय वन्दनकं तृतीयं प्रत्याख्यानवन्दनकं चतुर्थ, तथा स्वाध्याये त्रीणि वन्दनकानि, तत्र खाध्यायप्रस्थापने एक वन्दनं स्वाध्यायप्रवेदने द्वितीयं स्वाध्यायकरणानन्तरं च तृतीयं, एवं पूर्वाह्वे-प्रत्युषसि सप्त वन्दनकानि अपराह्वेऽप्येतान्येव सप्त, कालग्रहणोद्देशसमुद्देशानुज्ञादिवन्दनकानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् , तदेवमेतानि ध्रुवाणि कृतिकर्माणि प्रतिदिवसं चतुर्दश भवन्ति अभतार्थिकस्य, भक्तार्थिकस्य तु अपराहे प्रत्याख्यानवन्दनेनाभ्यधिकानीति ७५ ।। ६४८ ॥ सम्प्रति 'खेत्ते चारित्ताणं संख'त्ति षट्| सप्ततितमं द्वारमाह
तिण्णि य चारित्ताई बावीसजिणाण एरवयभरहे । तह पंचविदेहेसुं बीयं तइयं च नवि होइ ॥६४९॥
Jain Educati
o
n
For Private & Personel Use Only
F
w
.jainelibrary.org