________________
प्रव० सा- ४ धिइजुओ अणासंसी। अविकत्थणो अमायी थिरपरिवाडी गहियवक्को ॥१॥ जियपरिसो जियनिहो मज्झत्थो देसकालभावन्न । आस
६४ सूरिरोद्धारे दानलद्धपइभो नाणाविहदेसभासन्न ॥ २ ॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउउवनयनयनिउणोगाहणाकुसलो ॥३॥
गुणाः गा. तत्त्वज्ञा- ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ एसो पवयणसारं परिकहेउं ॥ ४॥ इति गाथाचतुष्टयभणिताः
५४१-४९ नवि० 18 सूरिगुणाः षट्त्रिंशद्दश्यन्ते-तत्र युतशब्दः प्रत्येकमभिसम्बध्यते, देशयुतः कुलयुत इत्यादि, तत्र यो मध्यदेशे जातो यो वाऽर्धषड्विंशतिषु
जनपदेषु स देशयुतः, स ह्यार्यदेशभणितं जानाति ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्यधीयन्ते इति तदुपादानं १ कुलं-पैतृक ॥१३१॥
तथा च लोकव्यवहारः-ईक्ष्वाकुकुलजोऽयमित्यादि तेन युतः प्रतिपन्नार्थनिर्वाहको भवति २ जाति:-मातृकी तया युतो विनयादिगुणवान् भवति ३ रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, 'यत्राकृतिस्तत्र गुणा वसन्ती'तिप्रवादात् , कुरूपस्य अनादेयत्वादिप्रसङ्गाच्च ४ संहननेन-विशिष्टशारीरसामर्थ्यरूपेण युतो व्याख्यायां न श्राम्यति ५ धृतिः-विशिष्टमानसावष्टम्भलक्षणा तया युतो नातिगहनेष्वप्यर्थेषु भ्रममुपयाति ६ अनाशंसी-श्रोतृभ्यो वस्त्राद्यनाकाङ्की ७ अविकत्थनो-नातिबहुभाषी, यद्वा स्वल्पेऽपि केनचिदपराद्धे पुनः पुनस्तदुत्कीर्तनं विकत्थनं तद्रहितः ८ अमायी-शाठ्यरहितः ९ स्थिरा-अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुप्रयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति १० गृहीतवाक्यः-उपादेयवचनः, तस्य हि स्वल्पमपि वचनं महार्थमिव प्रतिभाति ११ जितपर्षत् न महत्यामपि पर्षदि क्षोभमुपयाति १२ जितनिद्रः-अल्पनिद्रः, स हि रात्रौ सूत्रमर्थ वा परिभावयन् न । | निद्रया बाध्यते १३ मध्यस्थ:-सर्वेषु शिष्येषु समचित्तः १४ देशं कालं च भावं च जानातीति देशकालभावज्ञः, स हि देशं कालं भावं
8॥१३१॥ |च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वाऽभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्तयति १५-१६-१७ आसन्ना-तत्क्षणादेव लब्धा
CCCCCCCESSACREL-INCREK
REACOCA-
MARCHECAR
Jan Educate
For Private Personal Use Only
P
w
.jainelibrary.org