Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 346
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१७६॥ स्सजोहिणो मुणिणो ॥६३४ ॥ ते सवाभावे ता कुजा एकेक्कगेण ऊणा जा । तप्पासहिय एगो ७१ निर्याजलाइअण्णेसओ बीओ ॥ ६३५॥ मकाः 'सव्वत्ते'त्यदिगाधाद्वयं, निर्यामका-ग्लानप्रतिचारिणः, ते च पार्श्वस्थावसन्नत्वादिदोषदुष्टा अगीतार्थाश्च न कर्तव्याः किन्तु कालौचित्येन | |गा.१२९गीतार्थतादिगुणयुक्ता विशेषतो वैयावृत्त्यकरणोद्यताः, एते च उत्कर्षतोऽष्टचत्वारिंशद्भवन्ति, तद्यथा-'उच्चत्त'त्ति उद्वर्तनादिशरीरपरिचेष्टाका- ६३५ |रिणः १ 'दार'त्ति अभ्यन्तरद्वारमूलस्थायिनः २ 'संथार'त्ति संस्तारककर्तारः ३ 'कहग'त्ति अनशनिनः पुरतो धर्मकथकाः ४ 'वाइय'त्ति वादिनः ५ 'अग्गदारंमि'त्ति अग्रद्वारमूलावस्थायकाः ६ 'भत्त'त्ति तदुचितभक्तानयनयोग्याः ७ 'पान'त्ति पानानयनयोग्याः ८ 'वियार'त्ति उच्चारप्रश्रवणयोर्ग्रहणं, ततः उच्चारपरिष्ठापकाः ९ प्रश्रवणपरिष्ठापकाश्च १० 'कहग'त्ति' बहिर्धर्मकथकाः ११ 'दिसा जे समत्था य'त्ति दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः-सहस्रयोधिप्रभृतयः १२ ॥ एएसिं तु पयाण'ति एतेषां पूर्वोक्तानां द्वादशानामपि पदानां प्रत्येकं साधुचतुष्टयसद्भावात् चतुष्ककेण गुण्यमानानां निर्यामकसङ्ख्या भवति यथा-येन प्रकारेण समये-सिद्धान्ते निर्दिष्टा-कथिता अष्टचत्वारिंशल्लक्षणेत्यर्थः, अन्ये तु उच्चारप्रश्रवणपरिष्ठापने मिलितेऽपि चतुरोऽभिधाय ततो दिक्षु प्रत्येकं द्वौ द्वावित्यष्टौ महायोधाग्मन्यन्ते इत्येवमष्टचत्वारिंशतं प्रतिपादयन्तीति ॥ ६२९-६३० ॥ अथ सूत्रकृदेवैतान् विवृणोति-'उवत्तंते'त्यादि गाथाचतुष्टयं, इह च उत्सर्गतस्तावदनशनिना स्वयमेवोद्वर्त्तनादि विधेयं, अथ न शक्नोति तदा तं प्रतिपन्नानशनं चत्वारः साधव उद्वर्तयन्ति परावर्त्तयन्ति च, उपलक्षणमेतत् , उत्थापनोपवेशनबहिर्निर्गमनान्तःप्रवेशनोपधिप्रत्युपेक्षणादिकमपि तदीयं परिकर्म त एव कुर्वन्ति, तथा ॥१७६॥ अभ्यन्तरद्वारमूले जनसम्मदरक्षणार्थ चत्वारः साधवस्तिष्ठन्ति, जनसम्म हि कदाचिदनशनिनोऽसमाधिरप्युत्पद्येत, तथा चत्वारस्तद-४ For Private & Personal use only Join Education a l W inelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444