Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
R
प्रव० सा
रोद्धारे तत्त्वज्ञा
नवि०
॥१७५॥
OSHOLESTORE
ज ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥ ६२७ ॥ पुवपडिवनगाणवि उक्को- ७०परिहासजहण्णसो परीमाणं । कोडिपुरत्तं भणियं होइ अहालंदियाणं तु ॥ ६२८॥
रिकाः जिनकल्पिकाश्च यथालन्दिकास्तदा-कल्पकाले मारणान्तिकेऽप्यातङ्के समुत्पन्ने न कामपि चिकित्सां ते कारयन्ति, यथाकल्पस्थितेः, गा. ६१९. अपिच निष्प्रतिकर्मशरीरा:-प्रतिकर्मरहित्तदेहास्ते भगवन्तः, तत आस्तां तावदन्यत्, अक्षिमलमपि नापनयन्त्यप्रमादातिशयादिति ६२८ ॥ ६२३ ॥ स्थविरकल्पिकयथालन्दिकानां जिनकल्पिकयथालन्दिकेभ्यो नानात्वं-भेदः, यथा अशक्नुवन्तं व्याधिबाधितं सन्तं स्वसाधु-IA मर्पयन्ति गच्छस्य-गच्छवासिसाधुसमूहस्य, स्वकीयपञ्चकगणपरिपूरणार्थ च तस्य स्थाने विशिष्टधृतिसंहननादिसमन्वितमन्यं मुनिं स्वकल्पे प्रवेशयन्ति, तेऽपि च गच्छवासिनः साधवः 'सेत्ति तस्याशक्नुवतः प्रासुकेन-निरवद्येनानपानादिना कुर्वन्ति सर्वमपि परिकर्मप्रतिजागरणमिति ।। ६२४ ॥ किञ्च-स्थविराः-स्थविरकल्पिकयथालन्दिका अवश्यमेव एकैकपतद्ग्रहकाः-प्रत्येकमेकैकपतप्रधारिणः तथा सप्रावरणाश्च भवन्ति, ये पुनरेषां-यथालन्दिकानां मध्ये जिनकल्पे भविष्यन्ति जिनकल्पिकयथालन्दिका इत्यर्थः भाज्ये तेषां वस्त्रपात्रे-सप्रावरणाप्रावरणपतग्रहधारिपाणिपात्रभेदभिन्ना भाविजिनकल्पापेक्षया केषाच्चिद्वस्त्रपात्रलक्षणमुपकरणं भवति केषांचिच्च नेत्यर्थः ॥ ६२५ ॥ अथ सामान्येन यथालन्दिकप्रमाणमाह-गणमानतो-गणमाश्रित्य जघन्यतस्त्रयो गणाः प्रतिपद्यमानका भवन्ति, शताप्रशश्च | -शतपृथक्त्वमुत्कृष्टतो गणमानं, पुरुषप्रमाणं त्वेतेषां प्रतिपद्यमानकानां जघन्यतः पञ्चदश, पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते गणाश्च
॥१७५॥ जघन्यतस्त्रयः ततः पञ्च त्रिमिर्गुणिताः पञ्चदश, उत्कृष्टतः पुनः पुरुषप्रमाणं सहस्रशः-सहस्रपृथक्त्वं ॥ ६२६ ॥ पुरुषप्रमाणमेवाश्रित्य पुनर्विशेषमाह-प्रतिपद्यमानका एते जघन्यत एकादयो वा भवेयुः न्यूनप्रक्षेपे सति, यथालन्दिककल्पे हि पञ्चमुनिमयो गच्छः, तत्र च
For Private Personal Use Only
Thainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444