________________
म. सा. २७
Jain Education
तेजोवनस्पतित्रसानां षण्णामपि प्रतिलेखनाप्रमत्तो विराधको भणितः ॥ २ ॥ ] तथा पुरीषप्रश्रवणनिष्ठीवनश्लेष्मशरीर मलानुपकारिवसनान्नपानादीनां यज्जन्तुजातरहिते स्थण्डिले उपयोगपूर्वकं परित्यजनं सा परिष्ठापनासमितिः ॥ ५७१ ॥ इदानीं भावनाः प्रतिपादयति — पढममणिच्च १ मसरणं २ संसारो ३ एगया य ४ अन्नन्तं ५ । असुइत्तं ६ आसव ७ संवरो ८ य तह निजरा ९ नवमी ॥ ५७२ ॥ लोगसहावो १० बोहि यदुलहा ११ धम्मस्स साहओ अरहा १२ । एयाउ हुंति बारस जहक्कमं भावणीयाओ ॥ ५७३ ॥
तत्र प्रथममनित्यभावना १ द्वितीया अशरणभावना २ तृतीया संसारभावना ३ चतुर्थी एकत्वभावना ४ पञ्चमी अन्यत्वभावना ५ षष्ठी अशुचित्वभावना ६ सप्तमी आश्रवभावना ७ अष्टमी संवरभावना ८ तथा नवमी निर्जराभावना ९ दशमी लोकस्वभावभावना १० एकादशी बोधिदुर्लभत्वभावना ११ द्वादशी धर्मकथकोऽईन्निति १२, एतास्तु भावना द्वादश भवन्ति यथाक्रमं भणितक्रमेण भावनीया - अहर्निशमभ्यसनीया इति । एतासां च स्वरूपं किश्विन्निरूपयामः, तत्रैवमनित्यभावना - प्रस्यन्ते वज्रसाराङ्गास्तेऽप्यनित्यत्वरक्षसा । किं पुनः कदलीगर्भनिःसारानिह देहिनः १ ॥ १ ॥ विषयसुखं दुग्धमिव स्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुट - मिवोत्पश्यति यममहह किं कुर्मः ? ॥ २ ॥ धराधरधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधुतध्वजपटोपमम् ॥ ३ ॥ लावण्यं | ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् ॥ ४ ॥ स्वाम्यं स्वप्नावलीसाम्यं, चपलाचपलाः श्रियः । प्रेम द्वित्रिक्षणस्थेम, स्थिरत्वविमुखं सुखम् ॥ ५ ॥ सर्वेषामपि भावानां भावयन्नित्यनित्यताम् । प्राणप्रियेऽपि पुत्रादौ विपन्नेऽपि न शोचति ॥ ६ ॥ सर्ववस्तुषु नित्यत्वग्रहप्रस्तस्तु मूढधीः । जीर्णतार्णकुटीरेऽपि भने रोदित्यद्दर्निशम् ॥ ७ ॥ ततस्तृष्णाविनाशेन, निर्ममत्वविधा
For Private & Personal Use Only
jainelibrary.org