Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 333
________________ 6964 PHOGICCCCCARMA-%AX |च पानके इति, इदं चतुर्णा पारिहारिकाणां तपः, ये तु कल्पस्थितादयः पञ्च एको वाचनाचार्यश्चत्वारश्चानुचारिणः, ते सर्वेऽपि एवमेवपूर्वोक्तभिक्षाभिग्रहयुक्ताः सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति ॥ ६०५॥ एवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरन्ति-अनुचरा भवन्ति, वैयावृत्त्यकरा इत्यर्थः, ये चानुचरका आसन ते पारिहारिकतपसि परि-सामस्त्येन स्थिता भवन्ति यावत् षण्मासाः, अयमर्थ:ये पूर्वमनुचारिण आसन ते पूर्वोक्तप्रकारेणैव षण्मासान् यावत् निर्विशमानका भवन्ति, ये च पूर्व तपःप्रविष्टा आसन् तेऽनुचारिणो भवन्ति ॥ ६०६ ॥ मासद्वादशकानन्तरं कल्पस्थितोऽपि-वाचनाचार्योऽप्येवं-पूर्वोक्तन्यायेन षण्मासान् यावत् परिहारिकतपः करोति, शेषास्तु अष्टौ अनुपारिहारिकभावं-वैयावृत्त्यकरत्वं कल्पस्थितत्वं च-वाचनाचार्यत्वं व्रजन्ति, शेषाणामष्टानां मध्ये सप्त वैयावृत्त्यकरा भवन्ति || है एकस्तु वाचनाचार्य इत्यर्थः ।। ६०७ ॥ एवमसौ कल्पोऽष्टादशमासप्रमाणो वर्णितः सङ्केपतः, यस्त्वत्र विशेषः कश्चित् स विशेषसूत्रात् ||६|| -कल्पादेातव्यः ॥ ६०८ ॥ कल्पसमाप्तौ च यत्कर्तव्यं तदाह--'कप्पसम्मत्तीए' इत्यादि गाथापूर्वार्द्ध, कल्पस्य-पारिहारिकानुष्ठानरूपस्य समाप्तौ 'तय'ति तकं तमेव पारिहारिककल्पं जिनकल्पं वा उपयान्ति-प्रतिपद्यन्ते गच्छं वा अनुसरन्ति । परिहारविशुद्धिका हि द्विविधाः-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छं वा समुपयान्ति ते इत्वराः, ये पुनः कल्पसमात्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिकाः, उक्तं च-"इत्तरिय थेरकप्पे जिणकप्पे आवकहिय"त्ति, [इत्वराः स्थविरकल्पे यावत्कथिका जिनकल्पे ] अत्र स्थविरकल्पग्रहणमुपलक्षणं, खकल्पे चेति द्रष्टव्यं, इह चेत्वराणां कल्पप्रभावादेव देवमानुषतिर्यग्योनिक. कृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषह्याश्च वेदना न प्रादुर्भवन्ति, यावत्कथिकानां तु सम्भवेयुरपि, ते हि जिनकल्प प्रतिपत्स्यमाना जिनकल्पभावमनुविधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति, उक्तं च-इत्तरियाणुवसग्गा आयंका वेयणा य न Jain Education For Private & Personal Use Only djainelibrary.org anal

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444