________________
A
.A
सन् यथायोग मार्गे परिभ्रमन्नुपाश्रये तं साधुं दृष्ट्वा तमुपाश्रयं स्फोटयेत् साधुं च कथमपि प्राप्य मारयेदिति १५ । 'अज्झोयरए यत्ति अधि-आधिक्येनावपूरणं-स्वार्थदत्ताधिश्रयणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थ प्राचुर्येण भरणमध्यवपूरः स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकः तद्योगाद्भक्ताद्यप्यध्यवपूरकः, स च त्रिधा-स्वगृहयावदर्थिकमिश्रः स्वगृहसाधुमिश्रः स्वगृहपाखण्डिमिश्रश्च, स्वगृहश्रमणमिश्रस्तु स्वगृहपाखण्डिमिश्रे अन्तर्भावित इति पृथङ् नोक्तः, तत्र यावदर्थिकाद्यागमनात्प्रथममेवाग्निसन्धुक्षणस्थालीजलप्रक्षेपादिरूपे आरम्भे स्वार्थ निष्पादिते पश्चाद्यथासम्भवं त्रयाणां यावदर्थिकादीनामर्थायाधिकतरान् तण्डुलादीन प्रक्षिपति एषोऽध्यवपूरकः, अत एवास्य मिश्रजाताद्भेदः, यतो मिश्रजातं तदुच्यते यत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थ च मिश्रं निष्पाद्यते, यत्पुनः प्रथमत आरभ्यते स्वार्थ पश्चात्प्रभूतान यावदर्थिनः पाखण्डिनः साधून वा समागतानवगम्य तेषामर्थायाधिकतरजलतण्डुलादि प्रक्षिप्यते सोऽध्यवपूरक इति, अत्र च स्वगृहयावदर्थिकमिश्रे अध्यवपूरके शुद्धभक्तमध्ये यावन्तः कणाः कार्पटिकाद्यर्थ पश्चाक्षिप्तास्तावन्मात्रे स्थाल्याः पृथक्कृते कार्पटिकेभ्यो वा दत्ते सति शेषमुद्धरितं यद्भक्तं तत्साधूनां कल्पते, अत एव चायं विशोधिकोटिर्वक्ष्यते, तथा स्वगृहपाखण्डिमिश्रे स्वगृ
हसाधुमिश्र च शुद्धभक्तमध्यपतिते यदि तावन्मात्रं स्थाल्याः पृथक्कृतं दत्तं वा पाखण्ड्यादिभ्यस्तथापि शेषं न कल्पते, यतः सकलमपि ४ तद्भक्तं पूतिदोषदुष्टं भवतीति १६ । उक्ताः षोडश उद्गमदोषाः, अथ उत्पादनादोषानाह
धाई १ दुई २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा ६ य।कोहे ७ माणे ८ माया ९लोभे १० य हवंति दस एए॥५६७॥ पुब्धि पच्छा संथव ११ विजा १२ मंते १३ य चुण्ण १४ जोगे १५ य । उप्पाणाय दोसा सोलसमे मूलकम्मे १६ य ॥५६८ ॥
+2+-
+
+SCHOCHRISIt
Eaton
For Private Personal use only
ainelibrary.org