Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 370
________________ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दरखडे (मु०) किन्तु लाक्षणिकं पदं नानुभावकं लाक्षणिकार्थस्य शाब्द. बोधे तु पदान्तरं कारणम् । शक्तिलक्षणान्यतरसम्बन्धेनेतरपदार्थान्वितस्वशक्यार्थशाब्दबोधं प्रति पदानां सामर्थ्यावधारणात् । (प्र० टी० ) ननु-" तच्छान्दबोधे तच्छनपदज्ञानमेव हेतु" रिति लाक्षणिकपदात्कथं शाब्दबोध: स्यादित्यत श्राह-"किन्त्वि "ति। लाक्षणिकं पदम्तदर्थलाक्षणिकपदम् । नानुभावकम् शाब्दबोधजनकं नास्तीत्यर्थः । तथाच लाक्ष. णिके पदे स्मारिका शक्रिरेव नानुभाविकीति भावः । लाक्षणिकार्थस्य शाब्दबोधेलक्षणाज्ञानाधीनोपस्थितिविषयार्थविषयकशाब्दबोधे । पदान्तरम् घोषादिपदम् । कारणं हेतुः । अत्रार्थ नियममाह-" शक्तिलक्षणान्यतरे "ति । नियमशरीरस्यायमर्थः-शक्तिलक्षणान्यतरसम्बन्धेन-शक्या लक्षणया वेत्यर्थः । उपस्थितो यस्ती. रादिरितरपदार्थः, तदन्वितो यः स्वशक्यार्थः-स्वपदगृहीतो घोषादिर्यः शक्यार्थः भाभीरपल्लयात्मकः, तादृशतीराद्यन्विताभीरपल्लयात्मकशाब्दबोधं प्रति, पदानां घोषादिपदानां सामर्थ्यावधारणात् सामर्थ्यस्य निश्चितत्वात् । अर्थात् यत्र लक्षणया तीराद्युपस्थितिः तत्रोपस्थिततीरादिना अन्वितस्य घोषादिशक्तस्यैव लक्ष्यार्थशाब्दबोधप्रति (अपि) कारणतेति सर्वमनवद्यम् । तथाच--तल्लाक्षणिकपदसमभिव्याहृतं शक्त पदं तस्मारितवाक्यार्थविषयकशाब्दबोधजनकमिति भावः । कुमतिः पशुरित्यत्र सर्वलाक्षणिकस्थले शाब्दबोधस्यानुभवसिद्धतया लाक्षणिकपदस्याप्यानुभावकत्वमिति नव्याः । तीरत्वादिना गङ्गादिपदस्य । काचिच्छक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणानुभावकत्वात् "अजहत्स्वार्थी" । यथा--द्रव्यत्वादिना नीलघटत्वादिना च घटपदस्य । काचिल्लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्वपूर्वप्रत्यायकत्वात् “निरूढा' । यथा—भारुण्यादिप्रकारण तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य । काचिच्च पूर्वपूर्वताद्रप्येणाप्रत्यायकत्वात् “आधुनिकी"। थया-घटत्वादिना पटादिपदस्य । आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौण्यपगृह्यते । यथा-अग्निर्माणवक इत्यादावग्निसदृशत्वादिना अग्न्यादिपदस्य। तदेवं विविधलक्षणावत्वात "लक्षक" नामापि जहत्स्वार्थादिभेदादनकविमित्यर्थः । * कुत्सिता मतिर्यस्य स कुमतिरिति बोधः । इतरपदस्य कुत्सितज्ञानवल्लाक्षणिकतया, पूर्वपदस्य तात्पर्यग्राहकतया निरर्थकत्वम् । तेन कुत्सितपशुत्वस्य बाधितत्वेन पशुपदस्यापि पशुपदलाक्षणिकतया " कुमतिः पशु" रित्यत्र कस्यापि शक्तपदस्याभावात् तत्र शाब्दबोधो न स्यादिति शाब्दबोधोपपत्तये लाक्षणिकपदेऽपि भानुभाविकी शक्तिरवश्यमङ्गीकरणीयेति भावः। स्यादेतत्-यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरायनुभवे भवेद्धेतुः भवे. दप्युक्तक्रमेण लक्षकाणां विभागः नत्वेतदस्ति । ताराद्यन्वयबोधं प्रति तीरादिशक्तपदज्ञानस्य लाघवेन हेतुतया लक्षकाणामननुभावकत्वाव, गुरूणाम् " भग्नौ शैत्यं स्पृशेत् " इत्यादौ शक्येन दानादेनव " गङ्गाया घोष" इत्यादौ लक्षितेन तीरादिना सामगृहीतासंसर्गकस्यैव सप्तम्यर्था

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486