Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 382
________________ ३५४ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः। [शब्दखण्डे तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥ शङ्कते-'नन्विति । यत्र-यादृशबोधे तात्पर्यविषये सतीत्यर्थः । इत्याद्युक्तम्इत्याद्यनेकविशेषणावाचकपदघटितवाक्यं प्रयुक्तमित्यर्थः । तत्र = तादृशशाब्दबोधान्य. वहित प्राक्क्षणे । उत्तरपदस्मरणेन = इति प्रत्ययान्तकुण्डलपदमरणेन । एवमग्रे. ऽग्रेऽपि लाप्यम् । शङ्काग्रन्थस्यायमभिसन्धिः-पूर्वपदेन सहोत्तरपदस्य व्यवधानं विना या उपस्थितिः सा शाब्दबोधे कारणमित्युक्तम् । परन्तु यद्वाक्यमनेकैः पदैर्घटितमस्ति यथा-"क्षत्री कुण्डली'त्यादि, तत्र अव्यवधानेन पदोपस्थितिर्न भवितुमर्हति "कुण्डली" ति पदमरणेन "छत्री"तिपदस्सरणस्य नष्टत्वात् तथाच-पूर्वत्र सप्तविंशतिकारिकाव्याख्यायां साधर्म्यवैधर्म्यप्रकरणे 'योग्यविभुविशेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वाद्" इत्युक्तम् । तदनेन नियमेन उत्तरपदीयस्मरणेन पूर्वपदीयस्मरणस्य नाशाभ्युपगमात्, अव्यवधानेन उत्तरपदीयस्मरणस्य सर्वथाऽसम्भव एवेति कथमुच्यतेऽव्यव धानेन पदोपस्थितिः कारणमिति । समाधत्ते-"इति चेन्न" इत्यादिना । प्रत्येक पदजन्येति-तत्पदविषयक प्रत्येकपदानुभवजन्यतत्तत्पदविषयकप्रत्येकसंस्कारित्यर्थः । चरमस्य प्रत्येकसंस्कारविषयसर्वपदानामुद्रोधकसमवधानानन्तरभूतस्य । तावत्पदेति-उबुद्धसंस्कारविषयीभूतानि यावन्ति पदानि तावत्पदविषयैकस्मरणस्येत्यर्थः । अव्यवधानेनोत्पत्तेः = व्यवधानं विनापि सम्भवात् “न तस्य हेतुत्वानुपपत्ति"रिति शेषः । एकत्तणावच्छेदेनोत्पत्तौ बाधकाभावादित्यर्थः। समाधानग्रन्थस्येदं रहस्यम्-यद्यप्येवं तत्तत्पदीयस्मरणव्यक्तीनां भेदः, उत्तरपदस्मरणेन पूर्वपदीयस्मरणनाशश्च, तथापि तत्तत्पदविषयकं समू. हालम्बनमेकमेव स्मरणं भवति, तत्र समूहालम्बनपदार्थस्मृतेश्च स्वत एव शाब्दबोध इति न शाब्दबोधप्रति अव्यवधानेन पदोपस्थितिरूपाया आसत्ते: कारणबाधः। एवञ्च छन्त्रीत्यादिबहुपदघटितवाक्ये प्रत्येकं यच्छत्रीत्यादिपदं, तत्तत्पदानुभवजन्या ये संस्कारा: तैः चरमस्य = अन्तिमस्य तावत्पदविषयकस्मरणस्य = समूहालम्बनरूपसकलपदार्थस्म रणस्य अन्यधानेन = व्यवधानं विनापि उत्पत्तेः सम्भवान्नैव दोष इति भावः । __ अत्रार्थे दृष्टान्तविधया युक्तिमाह-"नानासनिकषैरिति । यथा एकसिमेव काले घटचतु:संयोगपटचतुःसंयोगरूपो नानासन्निकर्षो जायते तत "इमौ घटपटौ स्त" इत्याकारकमेव प्रत्यक्ष भवति तथा नानासंस्कारैः = छत्र्यादिपदविषयकानेकसंस्कारैः, एकस्मरणोपपत्तेरपि सम्भवात् = समूहालम्बनात्मकरूपैकपदार्थस्मृतेरपि योग्यत्वादित्यर्थः । क्वचित् “चरमम्" इति “एकस्मरणोत्पत्ते" रिति च पाठान्तरम् ।। ___ तत्तत्पदविषयकसंस्कारस्य भिन्नविषयत्वरूपेऽशे कारणत्वेऽपि तत्तत्संस्कारजन्यस्मरण मेकमेव जायते। तथाच नोक्नकार्यकारणभावे बाधकभाव इति भावः । तावत्पदसंस्कारेति--समवायघटितसामानाधिकरण्यसम्बन्धेन संस्कारोपलासिततादृशचरमवर्णज्ञानन्यक्केरेव तद्व्यक्तित्वेनोद्बोधकत्वादित्यर्थः ।

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486