Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 457
________________ सुखनिरूपणम् । पीनत्वं तत्र भोजन" मित्याकार कन्यातेर्बहुशो ग्रहणात् । दिवा च प्रत्यक्षेण भोजनबाधात “देवदत्तो रात्रिभोजी दिवाभुञ्जनत्वे सति पीनत्वात्" इत्याकारकानुमानेनैव रात्रिभोजनानुमितिरिति नार्थापत्तिः पृथक् प्रमाणम् । तथाच पारमर्षं सूत्रम् 8" शब्द " ( न्या० ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः २ । २ । २ ) इति । भाष्यकारोप्याह - "श्रर्थापत्तिरनुमानमेवेति इति । धनुपलब्धिरपि पृथक् प्रमाणमिष्यते मीमांसकैस्तदूषयति - " श्रभावप्रत्यक्षस्ये" ति विशेषणतादिसम्बन्धेन श्रभाव साक्षात्कार: प्रपञ्चितः प्रत्यत्तखण्डे तदर्थं प्रमाणान्तरापेक्षा नास्तीति भावः । श्रत्रादन्यदप्याह - सिद्धान्ती " किञ्चे" ति । उपलम्भाभावोऽनुपलम्भः अनुपलब्धिः तस्येत्यर्थः । प्रतियोग्युपलम्भाभावः स्वयमज्ञातः अभावप्रमाहेतुः ? ज्ञातो वा इति विकल्पद्वयम् । तत्राद्ये पत्ते दोषमाह - "अज्ञातस्य हेतु. व" इति । ज्ञानकरणकं ज्ञानं प्रत्यक्षमित्यवोचामैवेति भावः । द्वितीये दोषमाह - " ज्ञातस्य हेतुत्व" इति । " अनवस्थे" ति - प्रथमानुपलम्भस्य ज्ञानं द्वितीयायत्तं द्वितीयस्यापि तृतीयायत्तमित्येवमुत्तरोत्तरं पश्चाल्लना कारणमुखी अनवस्थेति भावः । तान्त्रिकश्चेष्टामपि प्रमाणान्तरं मन्यन्ते तन्मतं निरस्यति - " एवं चेष्टापी" ति । युक्तिमाह तस्या" इत्यादिना । "यत्रत्वि" ति - मूकबधिरादिषु । "अनुमिति रेवति । श्रयमत्र प्रयोगः - " श्रयं मूकबधिकरो भोजननाभिलाषी मुखप्रसारणादिविलक्षणचेष्टावत्त्वात् यन्नैवं तन्नैवं यथा तदितरः । श्रयमभिप्रायः -- कृतसङ्केता प्रकृतसङ्केता इति द्विविधा चेष्टा । आद्या सङ्कतेग्रा हकशब्दस्मारिकेतिलिप्यादिवत् शब्दप्रमाणेऽन्तर्भवति । द्वितीया व्याप्तिग्रहद्वाराऽनुमानान्तर्भूतेति न सापि पृथक् प्रमाणम् । अत्र बहुवक्तव्यं ग्रन्थगौरवभिया नोक्तम् ॥ १४४॥ (का० ) सुखं तु जगतामेव काम्यं धर्मेण जायते । ཞུ " ४२६ ( मु० ) सुखं निरूपयति - सुखं त्विति । काम्यमभिलाषविषयः । धर्मेयेति । धर्मत्वेन सुखत्वेन कार्यकारणभाव इत्यर्थः ॥ ( प्र० टी० ) सुखमिति स्पष्टम् । धर्मस्य लक्षणं वच्यति । जगतां जनानामित्यर्थः । “धर्मत्वेने " ति - इदन्तु प्राचां मतानुरोधेन । नवीनमते तु - नित्यं विज्ञानमानन्दं ब्रह्मेतिश्रुत्या भगवति नित्यसुखसिद्धौ धर्मत्वेन जन्यसुखत्वेन च कार्यकारणभावो बोध्यः सुखत्वावान्तरजातिर्वेति । धर्ममात्रासाधारणकारणको गुणः सुख" मिति तलत्तणमितिभावः । धर्मसुखयोः सामान्यकार्यकारणभावस्तु प्राचां मतानुरोधेन । नव्यमते तु " नित्यं विज्ञानमानन्दम्ब्रह्म " - इति श्रुत्या भगवति नित्य सुखसिद्धौ धर्मस्य कार्यतावच्छेदकं जन्यसुखत्वं बोध्यम् । * इदं सिद्धान्तसूत्रम् । न प्रमाणचतुष्टयस्य प्रतिषेध इत्यर्थः । तत्र हेतुमाह " शब्द " इत्यादि ।

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486