Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
शब्दस्याऽनित्यत्वम् ।
अत्रायं विवेक: "स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वम् , चिर-चिरतर-कालस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेः कारणत्व"मिति शब्दार्थरत्ने । "ध्वनिः काव्यविशेष' इत्यालङ्कारिकाः । सर्वथाऽपि न्यायमतवर्णात्मकशब्दभिन्नः (वैखरीभिन्नः ) तारत्वादिधर्मवानभिघातादिजन्यः शब्दविशेषो "ध्वनि"रिति ज्ञेयम्।।
अत्रेदमवधार्यम्-शब्दोत्पत्तिं द्विधा स्वीकुर्वन्ति तार्किकाः। कदम्बमुकुलन्यायेन जलतरङ्गन्यायेन धा । प्राद्यन्यायेन तु यथाकदम्बगोलकं युगपद्विकसितं, तत्पत्राणि चतुर्दिा विस्तृतानि तथा एकशब्द उत्पन्नो दशदिनु दशशब्दानुत्पादयति, तेपि दशदिनु दश शब्दानुत्पादयन्त्येवं दश दिक्षु व्याप्ताः शब्दाः । द्वितीयेन न्यायेन तु प्रथमः शब्दः प्रथमक्षण उत्पनोद्वितीयक्षणे शब्दान्तरमुत्पादयति तृतीयक्षणे तस्यापि ध्वंसः । एवं सोपि द्वितीयः शब्दः प्रथमक्षणे उत्पन्नो द्वितीयक्षणे शब्दान्तरमुत्पादयति तृतीयक्षणे तस्यापि ध्वंसः। एवं पूर्वपूर्वशब्दस्योत्तरोत्तरशब्दजनकत्वम् । उत्तरोत्तरशब्दस्य पूर्वपूर्वशब्दनाशकत्वम् । अन्त्यशब्दस्योपान्त्यशब्दनाशकत्वमुपान्त्यशब्दस्य चान्स्यशब्दनाशकत्वं परस्परं तयोर्नाश्यनाशकभावः सुन्दोपसुन्दन्यायादिति । अत एव नव्यनैयायिकैर्जगदीशभट्टाचार्यादिभिरन्त्यशब्दस्याप्रत्यक्षता स्वीकृता तस्योत्पत्तिनाशमन्तराऽन्यव्यापाराभावात् । परन्वेवंरीत्याऽन्त्यशब्दस्य द्वितीयक्षण एव सस्य स्वीकर्तव्यत्त्वेन योग्यविभुविशेषगुणानां तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वमिति नियमस्य भङ्गप्रसङ्गः। एतन्नियमपरिपालनार्थच. वेदान्तिभिरुपान्त्यशब्दनाशस्यान्स्यशब्दनाशकत्वं स्वीकृतं, तथाच प्रथमक्षणे ऽन्त्यशब्द उत्पन्नो द्वितीयक्षणे उपान्त्यशब्दस्य नाश स्तृतीयक्षणेऽन्त्यशब्दस्य नाशः । ननु-यत्रैकोवर्णात्मक शब्दस्तद्वितीयवर्णरूपशब्दाभावात्तस्य नित्यत्वं स्यादिति चेन्न-कण्ठवायुसंयोगाद्दलद्वयविभागाद् भेरीदण्डसंयोगाद्वा कदम्बमुकुलन्यायेन वीचीतरङ्गन्यायेनवा अनेकशब्दोत्पत्तिस्वीकारात् , एकशब्दस्याप्रसिद्धः। अत एव कर्णविवरोत्पन्न राब्दस्यैव प्रत्यक्षत्वं नतु भेरीदेशोत्पन्नप्रथमशब्दस्य प्रत्यक्षता तार्किकैः स्वीकृतेति भावः । (का०) उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता ।
(मु०) ननु शब्दस्य नित्यत्वादुत्पत्तिकथनमसङ्गतमत अाह-उत्पन्न इति । शब्दानामुत्पादविनाशप्रत्ययशालित्वादनित्यत्वमित्यर्थः ॥
(प्र० टी० ) शब्दनित्यत्ववादिना मीमांसकस्य मतं खण्डयति--"उत्पन्नः क" इति । स्पष्टम् । तथाच पारमर्प सूत्रम् - "आदिमत्त्वादैन्द्रियकत्वात्कृतकवदुपचाराच" ( न्या० २ । २ । १३ ) ऐन्द्रियकस्वच--"सामान्यवत्त्वे सति बहिरिन्द्रियजन्यलौकिकप्रत्यक्षविषयत्वम् । तेन सामान्यादौ न व्यभिचार इति भावः । अधिकन्तु भाष्यादौ द्रव्यष्टम् । ___(का०) सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ॥१६७॥ (मु०) ननु स एवायं ककार इत्यादिप्रत्यभिज्ञानाच्छन्दानां नित्यत्वम्, इत्थं
Page Navigation
1 ... 483 484 485 486