Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________ 458 सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [गुणग्रन्थः समाप्तः / चोत्पादविनाशबुद्धिर्भमरूपैवेत्यत पाह। सोऽयं क इति // साजात्यमिति / तत्र प्रत्यभिज्ञानस्य तत्सजातीयत्वं विषयो न तु तद्वयक्त्यमेदो विषयः उक्तप्रतीतिविरोधात् / इत्थं च द्वयोरपि प्रतीत्योरभ्रमत्वमिति // 167 // (प्र० टी० ) प्रत्यभिज्ञाबलाच्छब्दस्य नित्यत्वमस्तीत्यपि नेत्याशयेनाह--"सोऽयं क" इति / "साजात्य" मिति पदस्यार्थः / “तत्सजातीयत्वमि"ति / "द्वयोरपीति--उत्पादप्रतीतिप्रत्यभिज्ञानयोरित्यर्थः // 167 // (का०) तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् / / तस्मादनित्या एवेति वर्णाः सर्वे मतं हि नः // 168 // इति श्रीविश्वनाथपञ्चाननकृतकारिकावली समाप्ता // ननु-सजातीये सोऽयमिति प्रत्यभिज्ञा कुत्र दृष्टेत्यत अाह--यदौषधं मया कृतं तदौषधमन्येनापि कृतमित्यादिदर्शनादिति भावः // 168 // इति श्रीमहामहोपाध्यायविद्यानिवासभट्टाचार्यसुतश्रीविश्वनाथपञ्चाननभट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्या गुणनिरूपणम् // // समाप्तश्चायं ग्रन्थः॥ (प्र० टी० ) साजात्ये प्रत्यभिज्ञामुपपादयति--"तदेवौषधमि"ति / स्वमतमुपसंहरति-"तस्मादनित्या" इति / व्याख्यात प्रायमधस्तात् / श्रादिना दीपकलिकादीनां परिग्रहः / तत्रापि 'सैवेयं दीपकलिका" इत्याकारा प्रतिभिज्ञा न व्यक्त्यभेदनियन्धना किन्तु साजात्यविषयपरैवेति शम // 168 // व्योमवस्वङ्कचन्द्रेब्दे ( 1980 ) वैक्रमे युवनामके / माघे शुक्रदले कुम्भ-सक्रान्त्यां भौमवासरे // 1 // पञ्चमे जार्जभूपेन्द्रे भारते सति शासति / मुकावल्याः प्रभा टीका पिपर्मि स्म महाशया: ! // 2 // अल्पप्रज्ञा अपि जना एतामाश्रित्य पाठने / अतिप्रज्ञा भविष्यन्ति तेन तुष्यतु माधवः // 3 // इतिश्रीमहाकविभगवदत्तश्रीन्यायाम्भोनिधि-उष्णाकरायशिष्येण श्रीपण्डित-देवीदासतनुजनुषा सती-विष्णुदेवीगर्भजेन स्यालकोटवास्तव्य-श्रीजैनन्यायविशारद-कवितार्किक दर्शनाचार्य नृसिंहदेवशास्त्रिणा विरचितायां सिद्धान्तमुक्तावल्या: प्रभाख्यायां व्याख्यायां गुणनिरूपणम् / समाप्तश्चायं ग्रन्थः। समाप्ता च गुणग्रन्थनाम्नी अष्टमी मुका।
Page Navigation
1 ... 484 485 486