Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 484
________________ ४५६ मविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावरूपाः [गुणमन्थे सर्वकर्मजन्यादृष्टानीत्यर्थः । भस्मसात्कुरुते = नाशयतीत्यर्थः । स्मृति दर्शयित्वा श्रुति दर्शयति--"क्षीयन्त"इति । शङ्कते-"ननु तत्त्वज्ञानिन"इति । समाधत्ते"नेति" । प्रारब्धभिन्नकर्मणां सञ्चितानामेव ज्ञानेन नाशो नतु प्रारब्धस्यापीति । "तदभिप्रायमेवे"ति-प्रारब्धकर्माभिप्रायमेवेत्यर्थः । अत्र बहुवक्रव्यं ग्रन्थ गौरवभयान्नोक्नम् । (का०) शब्दो ध्वनिश्च वर्णश्व मृदङ्गादिभवो ध्वनिः॥१६४॥ कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः सर्वः शब्दो नभोवृतिः श्रोत्रोत्पन्नस्तु गृह्यते ॥१६५'। वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता। (मु०) शब्द निरूपयति--शब्द इति । नभोवृत्तिराकाशसमवेतः। दूरस्थशब्दस्याग्रहणादाह श्रोत्रेति । ननु मृदङ्गाद्यवच्छेदेनोत्पन्नेशब्दे श्रोत्रे कथमुत्पत्तिरत अाह । वीचीति । श्राद्यशब्दस्य बहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तेनैव शब्देन जन्यते तेन चापरस्तद्वयापकः । एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते इति । (का०) कदम्बगोलकन्यायादुत्पत्तिकस्यचिन्मते ॥१६६।। __(मु.) कदम्बेति । आद्यशब्दादशदिक्षु दश शब्दा उत्पद्यन्ते । तैश्चान्ये दश शब्दा उत्पद्यन्त इति भावः । अस्मिन्मते गौरवादुक्तं कस्यचि. न्मत इति ॥ १६४ ॥ १६५ ॥ १६६ ॥ (प्र० टी० ) "शब्द"इति । "श्रोत्रग्राह्यत्वे सति गुणत्वं' शब्दस्य बघणमित्यर्थः । स द्विविधः ध्वनिवर्णभेदादित्याशयेनाह-"ध्वनिश्चे"ति । ध्वनि म यो दूरादाकणयतो वर्णविशेषमनधिगच्छतः कर्णपथमवतरति, प्रत्यासीदतश्च तारस्वादिविशेषमवगमयति" इति शारीरकभाष्यव्याकर्ता श्रीवाचस्पतिमिश्रः । प्रतीतपदा. र्थको लोके ध्वनिः शब्द" इति महाभाष्यकारः । ध्वनेरुत्पत्त्यादिप्रकारादिकमुक्तं "शारदातिलके" "सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः । शक्ति ततो ध्वनिस्तस्मात् मादस्तसान्निरोधिका ॥ ततोऽर्धेन्दुस्ततो बिन्दुस्तस्मादासीत्परा ततः । पश्यन्ती मध्यमा वाचा वैखरी ज्ञानजन्मभूः" ॥ इति ।। भर्तृहरिप्याह वाक्यपदीये स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थितिभेदे निमिचस्वं वैकृतः प्रतिपयते ॥ इति ।

Loading...

Page Navigation
1 ... 482 483 484 485 486