Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
प्रवर्तकज्ञानषिचारः (विधिवादः) ।
४४७
श्रुतिरन्या विधीयते" इत्यपि द्रष्टव्यम् ।
(प्र० टी० ) ननु-वेदे वक्तुरभावात् कस्येच्छा लिङा बोधनीया इत्यत पाह"यस्त्वि "ति। मीमांसक इत्यर्थः । *पौरुषेयत्वम्-पुरुषप्रणीतत्वम् । श्रुतिकुमार्या:= श्रुतिर्वेद एव कुमारीति रूपकम् । वक्तृभिन्नेच्छाया वोधने विधेः सामर्थ्याभावात् विधिरेव वेदवक्तुरीश्वरे मानमिति भावः। यथा विना पुंयोगं कुमार्या गर्भो नार्हति भवितुमेवमेव वेदवक्तुरभावे वेदे विधिरेव भवितुं नाहतीति तत्त्वम् । शङ्कते"नचे"ति । कत्रस्मरणं वेदकस्तुरस्मरणं स्मृतिभिरबोधनमित्यर्थः । अर्थात् वेदस्यायापि कोऽपि कर्त्ता न मर्यते यद्यभविष्यत् तर्हि केनाप्यस्मरिष्यत्। तथाच "वेदो. ऽपौरुषेयोऽस्मर्यमाणकर्तृकत्वात्' इत्यनुमानं वेदस्य कर्तृत्वे बाधकमिति मीमांसकाशयः । समाधत्ते-“कपिलकणादादिभि"रिति । कपिलकणादगौतमादिभिस्तच्छिष्यैश्चाद्यपर्यन्तमित्यर्थः। कर्तृस्मरणस्व-सकर्तृकत्वबोधकस्मृतेरित्यर्थः। अन्यथा वेदे सकर्तृकत्वानङ्गीकारे। (मु०) स्वयम्भूरेष भगवान्वेदो गीतस्त्वया पुरा।
शिवाधा ऋषिपर्यन्ताः स्मरोऽस्य न कारकाः ॥ इति तु वेदस्य स्तुतिमात्रम् । नच पौरुषेयत्वे भ्रमादिसम्भवादप्रामाण्यं स्यादिति वाच्यम्, नित्यसर्वज्ञत्वेन निर्दोषत्वात् । अत एव पुरु षान्तरस्य भ्रमादिसम्भवान्न कपिलादरपि कर्तृत्वं वेदस्य । किञ्च वर्णानामेवानित्यत्वस्य वक्ष्यमाणत्वात्सुतरां तत्सन्दर्भस्य वेदस्यानित्य. त्वमिति सक्षेपः ॥ उपादानस्येति । उपादानस्य समवायिकारणस्याध्यक्षं प्रत्यक्षं प्रवृत्तौ कारणमिति ॥
(प्र० टी० ) ननु-न स्मृतिषु कर्तृस्मरणं स्मृतिष्वेव स्मृतिकर्तृणां प्रसिद्धिः । यथा च मन्वादौ स्पष्टमित्याशयवाशङ्कते-"तत्रैवेति । सिद्धान्ती समं समाधि
* वेदस्य पौरुषेयत्वापौरुषेयत्वविषये वादिनामतिविस्तृतो विचारोऽस्ति, तत्रास्तिकपक्षमाश्रित्य सिद्धान्तसारस्तु इत्थं बोध्यः-येषां नैयायिकानां नेय पौरुषेयत्वं तेषां नयेपीश्वररचितत्वेन भ्रमप्रमादविप्रलिप्सादिदोषराहित्यमेव वेदस्य । येषां मीमांसकानां नये सर्वथा पुरुषमात्रप्रणयनसम्बधराहित्यरूपमपौरुषेयस्वं तेषामपि मते पुरुषचिततया सम्भाव्यमानोक्तदोषाणां तत्र गन्धराहित्येन प्रामाण्यविषये नैवाऽस्ति विवादः । येषाञ्चौपनिषदानां मते शास्त्रयोनित्वेऽपि वेदस्यापौरुषेयत्वं तेषामपि ईश्वरनिश्वासभूतानां तेषां पुरुषकृतरचनास्वातन्त्र्याभावरूपौरुषयत्वं द्रढयति भ्रमादिदोषराहित्येन प्रामाण्यञ्चोपोदलयत्येवेति तात्पर्येऽविवाद एव सर्वेषाम् । अत एष “यस्ततः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता" इनि भट्टोक्तिरपि सङ्गता भवति । अधिकजिशासवो मम "विवृत्ति" ग्रन्थमालोकयस्तु । विस्तरस्तु मया प्रमेयकमलमार्तण्डोक्तिखण्डनपुरःसरं “वेदान्ततत्त्वसमीक्षायां" कृतः ।
Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486