Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 471
________________ विधिवादः। ५४३ चेन्न, तत्र बाधादिष्टसाधनत्वं कृतिसाध्यत्वं च न विध्यर्थः, किन्तु बलवदनिष्टाननुबन्धित्वमात्रं तदभावश्च नञा बोध्यते । अथवा बलवदनिष्टाननुबन्धित्वविशिष्टष्टसाधनत्वे सति कृतिसाध्यत्वं विध्यर्थः तदभावश्च नसा बोध्यमानो विशिष्टाभावो विशेष्यवति विशेषणाभावे विश्राम्यति । (प्र० टी०) विध्यर्थे इष्टसाधनत्वरूपे नअर्थान्वयोऽसम्भवीति शङ्कते"नन्वि"ति । विध्यर्थनार्थयोः कथमन्वयः विध्यर्थेष्टसाधनत्वाद्यन्वितनमर्थस्याभावरूपस्य कथमन्वयः, अर्थात् यदि विध्यर्थेन सह नार्थस्यान्वय: स्यात् तदा "न कलज्ज" मिति निषेधवाक्यात् "कलअभक्षणं पुरुपेष्टसाधनत्वाभाववत् कृतिसाध्यत्वाभाववच्च" इत्याकारक एव बोधः स्यात् सच न सुशकः, यतस्तस्मिन् शुष्के मांसविशेषे पुरुषस्येष्टसाधनत्वं कृतिसाध्यत्वञ्चेत्युभयमपि न प्रतीयत इत्युक्तो बोधः प्रतीतिबाधित एवेति नास्ति निषेधवाक्ये विध्यर्थेन सह नअर्थान्वय इति शङ्काग्रन्थार्थः । समाधत्ते--"इतिचेत् न” इति । “तत्र बाधादि"ति । बाधादिति-इष्टसाधनत्वाद्यन्चिताभावस्याऽसत्त्वादित्यर्थः । न विध्यर्थ इति । न प्रकृतविधितात्यर्यविषय इत्यर्थः । स्वीक्रियते मयाप्येतादृशस्थले दर्शितरीत्याऽर्थबाधः, परन्तु तत्रेष्टसाधनत्वादिकं न विध्यर्थों मयाङ्गीक्रियते । किन्तीत्याकाङ्क्षायामाह- "बलवदनिष्टाननुवन्धित्वमात्र" मिति । तदभावश्च कलाभक्षणे नजा बोध्यते। ___ इष्टसाधनस्वं कृतिसाध्यत्वं बलवदनिष्टाननुबन्धित्वञ्चेति त्रयोंऽशा विध्यर्थस्य, तद् यत्र यस्यांशस्य बोधो जायते तत्र यदि नञ् श्रापतेत् तर्हि तस्यांशस्यैव नआऽ भावो बोध्यते नरिवतरस्यापीति । प्रकृते कलाभक्षणवाक्ये बलवदनिष्टाननुबन्धिः त्वमात्रं विध्यर्थः, तदभावश्च ना 'कलाभक्षणं बलवदनिष्टाननुबन्धित्वाभाववत्" इत्याकारो बोध्यते तस्मान्न विध्यर्थेन सह नजाऽनन्वय इति भावः । लाघवमाश्रित्याह-"अथवे" ति । “विशेषणाभावे विश्राम्यती"ति । एवञ्चेष्टसाधनत्वादिमति कलाभक्षणादौ विशिष्टाभावो बोध्यमानो बलवदनिष्टाननबन्धित्वाभावे पर्यवस्यतीति भावः । एवंविधस्थले विशेषणाभावप्रयुक्तविशिष्टाभावलाभ इति तु रहस्यम् । (मु० ) ननु श्येनेनाभिचरन् यजेतेत्यादौ कथं बलवदनिष्टाननुबन्धित्वमर्थः श्येनस्य मरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधन. त्वात्, नच वैधत्वान्न विषेध इति वाच्यम्, अभिचारे प्रायश्चित्तोपदेशात, नव मरणानुकूलव्यापारमात्रं यदि हिंसा तदा खङ्गकारस्य कृपकर्तुश्च हिंसकत्वापत्तिर्गललग्नान्नभक्षणजन्यमरणे स्वात्मवधत्वापत्तिश्चेति वाच्यम् , मरणोद्देश्यकत्वस्यापि विशेषणत्वात्, अन्योद्देश्यकक्षिप्त

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486