Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
४३० सविकृतिप्रभोपेताथा न्यायसिद्धान्तमुक्तावल्या गुणान्थे (का०) अधर्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥ १४५ ॥
(मु०) दुःखं निरूययति-अधर्मेति । अधर्मत्वेन दुःखत्वेन कार्यकारणभाव इत्यर्थः । प्रतिकूलमिति । दुःखत्वज्ञानादेव सर्वेषां स्वाभाविकद्वेषविषय इत्यर्थः ॥ १४५॥ __(प्र० टी० ) अधर्मेत्यादि सर्व स्पष्टम् । “अधर्ममात्रासाधारकारकणो गुणो दुःख "मिति दुःखलक्षणम् । उनञ्चर्षिणा-'इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः" ( वै० १०।१।१) इत्येवं कारणभेदात्सु. खदुःखयोरर्थान्तरस्वं बोध्यम् तेन सुखाभावो दुःखं दुःखाभावः सखमिति वा वदन्तः परास्ताः ॥ १४५ ॥ (का० ) निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते । __इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि ॥ १४६ ॥
(मु०) इच्छां निरूपयति-निर्दुःखत्वे इति । इच्छा द्विविधा फलविषयिणी उपायविषयिणी च । फलं तु सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । अत एव पुरुषार्थः सम्भवति, “यज्ञातं सत् स्ववृत्तितयेष्यते स पुरुषार्थ" इति तल्लक्षणात् । इतरेच्छानधीनेच्छाविषयत्वं फलितोऽर्थः उपायेच्छां प्रतीष्टसाधनताशानं कारणम् ॥१४६॥
(प्र० टी० ) निर्दुःखत्वे सुखेचेति इच्छाया विषयो दर्शितः । लक्षणन्तु"इच्छात्वजातिमत्त्वम्" तज्ज्ञानात् फलस्वप्रकारकज्ञानादेव जायत इत्यर्थः । तदेतदाह-“फलेच्छाम्प्रती"ति इच्छाम्प्रति विषयज्ञानस्य कारणत्वादिति भावः । "इष्टोपायत्वधी"रित्यस्य व्याख्यानम् “इष्टसाधनताज्ञान"मिति। __कारिकाया उत्तरार्धार्थस्तु-तदुपाये-तयोर्दुःखाभावसुखयोः साधने इच्छा तदा स्यात् यदा इष्टोपायस्वधीः स्यात्, अर्थात् फलेच्छायां फलज्ञानं, उपायेच्छायामिष्टसाधनताज्ञानं च कारणमित्यर्थः। (का०) चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा च या भवेत् ।
तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥१४७॥ (मु०) चिकीर्षेति । कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा चिकीर्षा पाकं कृत्या साधयामीति तदनुभवात् । चिकीर्षा प्रति कृतिसाध्यताशानमिष्टसाधनतामानं च कारणम् । तद्धतुरिति । अत एव वृष्टयादौ कृतिसाध्यताशानाभावान चिकीर्षा ॥१४॥
(प्र० टी० ) इच्छाविशेषः चिकीर्षा तस्या: स्वरूपमभिदधत् कारणप्रतिबन्धकावप्याह-परममूले "चिकीर्ष"ति । कृतिसाध्ये क्रियाविषयिणीच्या चिकीत्यर्थः ।
MARKaal

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486