Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 456
________________ [गुणग्रन्थे ४२८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः गतार्थत्वान्नेष्यते । तथाहि । यत्र जीवित्वस्य बहिःसत्त्वगृहसत्त्वान्यतरव्याप्यत्वं गृहीतं तत्रान्यतरसिद्धौ जायमानायां गृहसवबाधाद्वहिःसत्त्व मनुमितौ भासते । एवं पीनो देवदत्तो दिवा न भुङले इत्यादौ पीनत्वस्य भोजनव्याप्यत्वावगमाद्भोजनसिद्धौ दिवा भोजनबाधे रात्रिभोजनं सिध्यतीति । अभावप्रत्यक्षस्यानुभविकत्वादनुपलम्भोऽपि न प्रमाणान्तरम् । किञ्चानुपलम्भस्याज्ञातस्य हेतुत्वे ज्ञानाकरणकत्वात्प्रत्यक्षत्वम् शातस्य हेतुत्वे तु तत्राप्यनुपलम्भान्तरापेक्षेत्यनवस्था । एवं चेष्टापि न प्रमाणान्तरं तस्याः सङ्केतग्राहकशब्दस्मारकत्वेन लिप्यादिसमशीलत्वाच्छब्द एवान्तर्भावात् । यत्र च व्याप्त्यादिग्रहस्तत्रानुमितिरेवेति ॥ १४४ ॥ __ (प्र० टी० ) अर्थापत्तिवादिनां मतं निराकत्तुं पक्षमुत्थापयति “अर्थापत्तिः प्रमाणान्तर"मिति । केचन-पूर्वोत्तरमीमांसका: । उपपादकज्ञानहेतुभूतमुपपाद्यज्ञानमर्थोपात्तः प्रमाणम् । उपपादकज्ञनामापत्तिः प्रमा फलम् । यथा 'पीनो देवदत्तो दिवा न भुक्ने" इत्यत्र पीनत्वं रात्रिभोजनाऽनुपपत्याऽसम्भवीति रात्रिभोजनं कल्पयति । अत्रोपपादकज्ञानहेतुभूतं पीनत्वज्ञानमुपपायं सद् अर्थापत्तिः प्रमाणम् । रात्रिभोजनज्ञानमुपपादकं सत् अर्थापत्तिः प्रमेत्येवमेवान्यत्राप्यूम् । तत्र योऽर्थोऽन्येन केनचित्कल्पनीयेन विना नोपपद्यते सोऽर्थ "उपपाद्य” इति । यस्य च कल्पनीयार्थस्थाभावे सत्युपपाद्यं नोपपद्यते सोऽर्थ "उपपादक" इत्यपि न विस्मर्तव्यम् । अत्रत्तु-जीवतो देवदत्तस्य बहिःसत्त्वज्ञानमुपपादकमित्यर्थापत्ति: प्रमा । शतवर्षजीवित्वविशिष्टगृहासत्त्वज्ञानमुपपाद्यमित्यर्थापत्तिः प्रमाणम् । अत्रोपपाद्योपपादकभाव एवं लापनीयः । योऽर्थः गृहासत्त्वरूपोऽर्थः, येनान्येन-बहिःसत्त्वरूपेण कल्पनीयेना र्थेन विना नोपपद्यते स गृहाऽसत्त्वरूपोऽर्थः उपपाद्य इत्युच्यते । यस्य च-बहिःसत्त्वरूपस्य कल्पनीयस्यार्थस्याभावे सति उपपाधं गृहाऽसत्त्वं नोपपद्यते सच वहिःसत्त्व रूपोऽर्थः उपपादक इत्युच्यते । अर्थापत्तिरित्येक एव शब्दः प्रमाणप्रमित्योर्बोधकः । तथाहि-अर्थस्य बहिसत्त्वस्य आपत्तिः कल्पना यस्मादिति समासेनापत्तिशब्द उपपाधज्ञानरूपकरणपरत्वेन प्रमाणवाचकः । श्रर्थस्यापत्तिरिति समासेन चोपपादकज्ञानरूपार्थांपत्तिप्रमितिपरः । उपपाद्यज्ञानप्रभवमुपपादकज्ञानमायत्तिः प्रमेति भावः । सदेतखण्डयति-"अनुमानेन गतार्थत्वादि"ति। “यत्र जीवित्वस्ये"ति, "जीवतो जीवित्वं बहिःसत्त्वगृहसत्त्वान्यतरव्याप्यम्" इत्याकारकं ज्ञानं जातमित्यर्थः । "तो"ति । तत्रैककोटिसाक्षात्कारे गृहसत्त्वस्य प्रत्यक्षेण बाधात् जीविनो देवदत्तस्य बाह्यसत्त्वमनुमानगम्यमिति नार्थापत्तेः प्रमाणान्तरत्वम् । तथाहि-“देवदत्तो बहिःसत्त्ववान् जीवित्वे सति गृहाभावदर्शनात्" इति । स्थलान्तरेऽपि अर्थापत्तिमनुमानेऽन्तर्भावयति- "एवमि"ति । "भोजनव्याप्यत्वावगमादि"ति-"यन्त्र यन्त्र

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486