Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 454
________________ Varnamann...--- ४२६ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्रावल्या: [गुणग्रन्थे न्धवत्" । अन्न पृथिवीत्वावच्छिन्नं पक्षः, पृथिवीतरजलायष्टभेदः साध्यः, गन्धवत्वं हेतुः, इत्यत्रापि व्यतिरेकन्याप्तिर्बोध्या । अत्र साध्यस्य पृथिवीतरजलायष्टभेदस्य व्यापकीभूतो योऽभावो गन्धामावः तत्प्रतियोगित्वं गन्धेऽस्तीति लक्षणसमन्वयः । “धूमवान् वढे" रित्यादौ वन्यभावस्यापि धूमाभावसमानाधिकरणत्वेन तत्प्रतियोगित्वस्य च वन्ही सत्वादतिव्याप्तिः अतः सामानाधिकरण्यमपहाय लक्षणे व्यापकत्वं निविष्टम् । साध्याभावश्च---साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रति. योगिताको बोध्यः, तेन समवायेन वन्यभावाधिकरणे पर्वतादी धूमाभावासत्त्वात् धूमाभावस्य च व्यापकत्वविरहेऽपि न क्षतिः, नवा वह्निघटोभयाभावाधिकरणपर्वतादिवृत्यभावप्रतियोगिस्वेऽपि धूमाभावस्य “पर्वतो वह्निमान् धूमाद्" इत्यादावति. ध्याप्तिः । व्यापकीभूताभावश्च हेतुतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकः तेन समवायेन धूमाभावस्य वन्ह्यभावव्यापकत्वविरहेऽपि न तिरिति सङ्क्षपः । * __(मु०) अत्रेदं बोध्यम् । यत्सम्बन्धेन यदवच्छिन्नं प्रति येन सबन्धेन येन रूपेण व्यापकता गृह्यते तत्सम्बन्धावच्छिन्नप्रतियोगिताकत. धर्मावच्छिन्नाभाववत्ताज्ञानात्तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद्धर्मावछिनामावस्य सिद्धिरिति । इत्थं च यत्र विशेषणतादिसम्बन्धेनेतरत्वव्यापकत्वं गन्धाभावे गृह्यते तत्र गन्धाभावाभावेनेतरत्वात्यन्ताभावः सिध्यति । यत्र तु तादात्म्यसम्बन्धेनेतरव्यापकत्वं गन्धाभावस्य गृह्यते तत्र दातात्म्यसम्बन्धेनेतरस्याभावः सिध्यति । स एवान्योन्वाभावः। एवं यत्र संयोगसम्बन्धेन धूमं प्रति संयोगसम्बन्धेन वापकता गृह्यते तत्र संयोगसम्बन्धावच्छिन्नप्रतियोगिताकवह्नयभावेन जलहदे संयोगसम्बन्धापच्छिन्न प्रतियोगिताकधूमाभावः सिध्यति । अत्र च व्यतिरेकव्याप्तिग्रहे व्यतिरेकसहचारक्षानं कारणम् ।। (प्र. टी.) अत्यन्ताभावान्योन्यभावप्रकारं साध्यांशे दर्शयितुं ग्रन्थान्तरमवतारयति-"अत्रेद"मिति । “यत्सम्बन्धेने"ति-यस्सम्बन्धावच्छिन्नयदपावच्छिखव्याप्यतानिरूपितन्यापकता गृह्यत इत्यर्थः । अस्य प्रघट्टकस्यायमाशयः-यन्त्र गन्धात्यन्ताभावे पृथिवीतरवृत्तीतरस्वधर्मनिष्ठा या व्याप्यता, तनिरूपिता या व्यापकता, सा यदि विशेषणता ( स्वरूप) सम्बन्धेन गृह्यते तत्र गन्धाभावाभावेन = गन्धेन इतरत्वधर्मात्यन्ताभावः सिद्धयति । अर्थात् यत्र गन्धोस्ति तत्र जनादीतरभेद: जलादिनिष्ठेतरत्वधर्मात्यन्ताभावश्च वर्तते । धर्मिभेदो धर्मास्यन्ताभावश्चैतदुभयमपि समाना. धिकरणवृत्ति भवतीत्यर्थः । तादात्म्यसम्वन्धावच्छिन्ना या इतरनिष्ठा व्याप्यता. ताह * वयमावो धूमावयथे, तत्र समवायेन धूमाभावो नास्तीति व्यापकत्वाभावो धूमाभावे इति भावः।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486