Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 453
________________ अनुमानभेदो व्याप्तिभेदश्च । कल्प्यं तदेवत्वसिद्धं प्रमाणाभावात् । " अस्तित्वेन गामनुमिनोमि" इत्यादेरनुष्यवसायस्य तत्रासत्त्वात् । प्रत्युत "गौरस्ती' तिवाक्यात् " अस्तित्वेन गौः श्रुतो नत्वनुमित" इत्यनुभवाच्च । " श्रोतव्यो मन्तव्य" इत्यादिप्रयोगदृष्टया शाब्दत्वस्यापि शृणोतेः शक्यतावच्छेदकत्वात् शाब्दबोधो नानुमितिः किन्तु पदज्ञानात्मकप्रमाणजन्यः स्वतन्त्रोऽनुभव इति दिक् ॥ १४०, १४१ ॥ (का० ) त्रैविध्यमनुमानस्य केवलान्वयिभेदतः । द्वैविध्यं तु भवेद्रयाप्तेरन्वयव्यतिरेकतः ॥ १४२ ॥ अन्वयव्याप्तिरुक्चैव व्यतिरेकादथोच्यते । ४२५ ( मु० ) त्रैविध्यमिति । अनुमानं हि त्रिविधं केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात् । तत्रासद्विपक्षः केवलान्वयी । यथा घटोऽभिधेयः प्रमेयत्वादित्यादौ । तत्र हि सर्वस्यैवाभिधेयत्वाद्विपक्षासत्वम् । असत्लपक्षः केवलव्यतिरेकी । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्वादित्यादौ । तत्र हि जलादित्रयोदशभेदस्य पूर्वमनिश्चिततया निश्चितसाध्यवतः सपक्षस्याऽभावात् । सत्सपक्षविपक्षोऽन्वयव्यतिरेकी । यथा वहिमान्धूमादित्यादौ । तत्र सपक्षस्य महानसादेर्विपक्षस्य जलहदादेश्व सत्त्वादिति ॥ ( प्र० टी० ) प्रसङ्कादनुमानं विभज्य व्याप्तिं विभजते परममूले - " द्वैविध्य”मिति । श्रन्वयव्यतिरेकतः = श्रन्वयव्यतिरेक भेदाद् व्याप्तिर्द्विविधा । तत्र श्रन्वयव्याप्तिः अनुमानप्रकरणे उक्का सम्प्रति व्यतिरेकव्याप्तिरुच्यते इत्यस्याग्रिमेण सम्बन्धः । मुक्तावल्याम् – “ अनुमान" मित्यारभ्य "सत्त्वादिति" इत्यन्तो ग्रन्थो निगदव्याख्यातः । जलादित्रयोदशभेदस्य = अष्टौ जलाद्याः, पञ्च गुणाद्या इति त्रयोदश । यद्यपि जलादिचतुर्दशभेद इति वक्तुं योग्यं तथापि परमतेऽभावस्याधिकरणात्मकतया तथोक्तिः । (का०) साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥ १४३ ॥ ( मु० ) तत्र हि व्यतिरेकिणि व्यतिरेकव्याप्तिज्ञानं कारणं तदर्थ व्यतिरेकव्याप्तिं निर्वक्कि - साध्याभावेति । साध्याभावव्यापकीभूतावप्रतियोगित्वमित्यर्थः । ( प्र० टी०) हेत्वभावस्य सत्साध्याभावव्यापकत्वं सेव "व्यतिरेकव्याप्ति' रित्यर्थः । तदेतन्निष्कृष्याह - मूले " साध्याभावे "ति । वन्ह्यादिसाध्याभा. वस्य व्यापकीभूतो योऽभावो धूमाभावः तादृशाभावप्रतियोगित्वमेव धूमहेतो: शिरसि व्यतिरेकव्याप्तिः । एवमेव " पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् यदितरेभ्यो न भिद्यते न तन " "

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486