________________
अनुमानभेदो व्याप्तिभेदश्च ।
कल्प्यं तदेवत्वसिद्धं प्रमाणाभावात् । " अस्तित्वेन गामनुमिनोमि" इत्यादेरनुष्यवसायस्य तत्रासत्त्वात् । प्रत्युत "गौरस्ती' तिवाक्यात् " अस्तित्वेन गौः श्रुतो नत्वनुमित" इत्यनुभवाच्च । " श्रोतव्यो मन्तव्य" इत्यादिप्रयोगदृष्टया शाब्दत्वस्यापि शृणोतेः शक्यतावच्छेदकत्वात् शाब्दबोधो नानुमितिः किन्तु पदज्ञानात्मकप्रमाणजन्यः स्वतन्त्रोऽनुभव इति दिक् ॥ १४०, १४१ ॥
(का० ) त्रैविध्यमनुमानस्य केवलान्वयिभेदतः ।
द्वैविध्यं तु भवेद्रयाप्तेरन्वयव्यतिरेकतः ॥ १४२ ॥ अन्वयव्याप्तिरुक्चैव व्यतिरेकादथोच्यते ।
४२५
( मु० ) त्रैविध्यमिति । अनुमानं हि त्रिविधं केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात् । तत्रासद्विपक्षः केवलान्वयी । यथा घटोऽभिधेयः प्रमेयत्वादित्यादौ । तत्र हि सर्वस्यैवाभिधेयत्वाद्विपक्षासत्वम् । असत्लपक्षः केवलव्यतिरेकी । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्वादित्यादौ । तत्र हि जलादित्रयोदशभेदस्य पूर्वमनिश्चिततया निश्चितसाध्यवतः सपक्षस्याऽभावात् । सत्सपक्षविपक्षोऽन्वयव्यतिरेकी । यथा वहिमान्धूमादित्यादौ । तत्र सपक्षस्य महानसादेर्विपक्षस्य जलहदादेश्व सत्त्वादिति ॥
( प्र० टी० ) प्रसङ्कादनुमानं विभज्य व्याप्तिं विभजते परममूले - " द्वैविध्य”मिति । श्रन्वयव्यतिरेकतः = श्रन्वयव्यतिरेक भेदाद् व्याप्तिर्द्विविधा । तत्र श्रन्वयव्याप्तिः अनुमानप्रकरणे उक्का सम्प्रति व्यतिरेकव्याप्तिरुच्यते इत्यस्याग्रिमेण सम्बन्धः । मुक्तावल्याम् – “ अनुमान" मित्यारभ्य "सत्त्वादिति" इत्यन्तो ग्रन्थो निगदव्याख्यातः । जलादित्रयोदशभेदस्य = अष्टौ जलाद्याः, पञ्च गुणाद्या इति त्रयोदश । यद्यपि जलादिचतुर्दशभेद इति वक्तुं योग्यं तथापि परमतेऽभावस्याधिकरणात्मकतया तथोक्तिः ।
(का०) साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥ १४३ ॥
( मु० ) तत्र हि व्यतिरेकिणि व्यतिरेकव्याप्तिज्ञानं कारणं तदर्थ व्यतिरेकव्याप्तिं निर्वक्कि - साध्याभावेति । साध्याभावव्यापकीभूतावप्रतियोगित्वमित्यर्थः ।
( प्र० टी०) हेत्वभावस्य सत्साध्याभावव्यापकत्वं सेव "व्यतिरेकव्याप्ति' रित्यर्थः । तदेतन्निष्कृष्याह - मूले " साध्याभावे "ति । वन्ह्यादिसाध्याभा. वस्य व्यापकीभूतो योऽभावो धूमाभावः तादृशाभावप्रतियोगित्वमेव धूमहेतो: शिरसि व्यतिरेकव्याप्तिः ।
एवमेव " पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् यदितरेभ्यो न भिद्यते न तन
"
"