________________
Varnamann...---
४२६ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्रावल्या: [गुणग्रन्थे न्धवत्" । अन्न पृथिवीत्वावच्छिन्नं पक्षः, पृथिवीतरजलायष्टभेदः साध्यः, गन्धवत्वं हेतुः, इत्यत्रापि व्यतिरेकन्याप्तिर्बोध्या । अत्र साध्यस्य पृथिवीतरजलायष्टभेदस्य व्यापकीभूतो योऽभावो गन्धामावः तत्प्रतियोगित्वं गन्धेऽस्तीति लक्षणसमन्वयः । “धूमवान् वढे" रित्यादौ वन्यभावस्यापि धूमाभावसमानाधिकरणत्वेन तत्प्रतियोगित्वस्य च वन्ही सत्वादतिव्याप्तिः अतः सामानाधिकरण्यमपहाय लक्षणे व्यापकत्वं निविष्टम् । साध्याभावश्च---साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रति. योगिताको बोध्यः, तेन समवायेन वन्यभावाधिकरणे पर्वतादी धूमाभावासत्त्वात् धूमाभावस्य च व्यापकत्वविरहेऽपि न क्षतिः, नवा वह्निघटोभयाभावाधिकरणपर्वतादिवृत्यभावप्रतियोगिस्वेऽपि धूमाभावस्य “पर्वतो वह्निमान् धूमाद्" इत्यादावति. ध्याप्तिः । व्यापकीभूताभावश्च हेतुतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकः तेन समवायेन धूमाभावस्य वन्ह्यभावव्यापकत्वविरहेऽपि न तिरिति सङ्क्षपः । * __(मु०) अत्रेदं बोध्यम् । यत्सम्बन्धेन यदवच्छिन्नं प्रति येन सबन्धेन येन रूपेण व्यापकता गृह्यते तत्सम्बन्धावच्छिन्नप्रतियोगिताकत. धर्मावच्छिन्नाभाववत्ताज्ञानात्तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद्धर्मावछिनामावस्य सिद्धिरिति । इत्थं च यत्र विशेषणतादिसम्बन्धेनेतरत्वव्यापकत्वं गन्धाभावे गृह्यते तत्र गन्धाभावाभावेनेतरत्वात्यन्ताभावः सिध्यति । यत्र तु तादात्म्यसम्बन्धेनेतरव्यापकत्वं गन्धाभावस्य गृह्यते तत्र दातात्म्यसम्बन्धेनेतरस्याभावः सिध्यति । स एवान्योन्वाभावः। एवं यत्र संयोगसम्बन्धेन धूमं प्रति संयोगसम्बन्धेन वापकता गृह्यते तत्र संयोगसम्बन्धावच्छिन्नप्रतियोगिताकवह्नयभावेन जलहदे संयोगसम्बन्धापच्छिन्न प्रतियोगिताकधूमाभावः सिध्यति । अत्र च व्यतिरेकव्याप्तिग्रहे व्यतिरेकसहचारक्षानं कारणम् ।।
(प्र. टी.) अत्यन्ताभावान्योन्यभावप्रकारं साध्यांशे दर्शयितुं ग्रन्थान्तरमवतारयति-"अत्रेद"मिति । “यत्सम्बन्धेने"ति-यस्सम्बन्धावच्छिन्नयदपावच्छिखव्याप्यतानिरूपितन्यापकता गृह्यत इत्यर्थः । अस्य प्रघट्टकस्यायमाशयः-यन्त्र गन्धात्यन्ताभावे पृथिवीतरवृत्तीतरस्वधर्मनिष्ठा या व्याप्यता, तनिरूपिता या व्यापकता, सा यदि विशेषणता ( स्वरूप) सम्बन्धेन गृह्यते तत्र गन्धाभावाभावेन = गन्धेन इतरत्वधर्मात्यन्ताभावः सिद्धयति । अर्थात् यत्र गन्धोस्ति तत्र जनादीतरभेद: जलादिनिष्ठेतरत्वधर्मात्यन्ताभावश्च वर्तते । धर्मिभेदो धर्मास्यन्ताभावश्चैतदुभयमपि समाना. धिकरणवृत्ति भवतीत्यर्थः । तादात्म्यसम्वन्धावच्छिन्ना या इतरनिष्ठा व्याप्यता. ताह
* वयमावो धूमावयथे, तत्र समवायेन धूमाभावो नास्तीति व्यापकत्वाभावो धूमाभावे इति भावः।