________________
अर्थापत्तेरनुमानेऽन्तर्भावः ।
शव्याप्यतानिरूपिता व्यापकता गन्धाभावे गृह्यते चेत् तदा तादात्म्यसन्धेनैव जलादीतराभावः सिद्धो भवति स एवान्यान्यो भावः ।
एवन्तु बोध्यम् - यत्रेतरभेदाभावः तत्र गन्धाभाव:, यत्र गन्धाभावा भावः तत्रेतरभेदाभावाभावः, अर्थात् - इतरत्वात्वात्यन्ताभावः । इतरभेदाभावस्येतरत्वरूपत्वात् । भेदाभावस्य प्रतियोगितावच्छेदकरूपत्वादिति भावः ।
धर्मिभेदो धर्मात्यन्ताभावश्चैकः । यथा- - घटभेदो घटं विहाय सर्वत्राऽस्ति तथा घटत्वात्यन्ताभावोऽपि घटं विहाय सर्वत्रास्तीति समनियताभावयोरैक्याचेत्युक्तप्रन्थस्याशयो भातीति स्वामिविश्वेश्वराश्रमदण्डिनः ।
४२७
ननु – साध्यसाधनसहचारज्ञानाभावात् कथं व्यतिरेकव्याप्तिज्ञानामित्यत आह" अत्रचे" ति । यत्र यत्र साध्याभावः तत्र तत्र हेत्वभाव" इत्याकारकम्यतिरेकसहचारज्ञानादित्यर्थः । तथाच व्यतिरेकव्याप्तिग्रहान्नान्वय सहचारज्ञानापेवेति भावः ।
( मु० ) केचित्तु व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते नतु व्यतिरेकव्याप्तिज्ञानं कारणम् । यत्र व्यतिरेक सहचाराद्व्याप्तिग्रहस्तत्र व्यतिरेकीत्युच्यते । साध्यप्रसिद्धिस्तु घटादावेव ज्ञायतां पश्चात्पृथिवीत्वावच्छेदेन साध्यत इति वदन्ति ॥ १४२॥१४३॥
( प्र० टी०) उदयनाचार्यमतमाह--" के चित्विति । व्यतिरेकसहचारेण = श्रन्वयसहचारनिरपेक्षव्यतिरेकसहचारेण । कथं तर्हि व्यतिरेक्यनुमितिरत ग्राह-"नत्विति । नन्वन्वयव्याप्तिज्ञानस्यैव हेतुत्वे कथं व्यतिरेकीति व्यवहार इत्यत आह
- "यत्रे "ति । ननु – “पृथिवीतेरभ्यो भिद्यते" इत्यादौ साध्यस्येतरभेदादेरप्रसिद्धत्वात् कथं व्यतिरेकसहचारग्रह इत्यत श्राह - " साध्यप्रसिद्धिस्तित्व "ति । ननु - घटादौ साध्ये निर्णीते कथं तत्रेतरभेदानुमितिरत श्राह - "पश्चादि"ति । अवच्छेदका - वच्छेदेनानुमितौ सामानाधिकरण्येन साध्यसिद्धेरप्रतिबन्धकत्वादिति भावः । प्रपञ्चितचैतत्पूर्व पताग्रन्थे ॥ १४२,१४३॥
(का० ) अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते ।
व्यतिरेकव्याप्तिबुद्धया चरितार्था हि सा यतः ॥ १४४॥
( प्र० टी० ) भाट्टा औपनिषदाश्च प्रर्थापत्तिं पृथक् प्रमाणत्वेन स्वीकुर्वन्ति तन्मतं निराकुरुते परममूले - " अर्थापत्तिस्त्वि" ति । अत्र युक्तिमाह - "व्यतिरेकेति । यतः सापि व्यतिरेक्यनुमानेनैव चरितार्था श्रत एव नातिरिक्ता ।
(मु० ) अर्थापत्तिरिति । श्रर्थापत्तिः प्रमाणान्तरमिति केचन मम्यन्ते । तथाहि – यन्त्र देवदत्तस्य शतवर्षजीवित्वं ज्योतिःशास्त्रादवगतं जीविनो गृहासत्वं च प्रत्यक्षादवगतं तत्र शतवर्षजीविनो गृहासत्वं बहिःसत्त्वं विनाऽनुपपन्नमिति बहिः सध्वं कल्प्यत इति । तदनुमानेन